Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाचकस्य औदारिकपदस्य कोऽर्थः १ इत्याशङ्कायां तत्तच्छन्दाथमाह-उपादानात् प्रभृति अनुसमयमुद्गच्छति नाम वर्धते इत्युदारम् । तल्लक्षणं तु सजातीयेतरव्यावर्तनाय प्रोक्तं प्राक् । वैक्रियं विवृणोति--
विक्रियाफलकं वैक्रियम् ॥ २६ ॥ विविधं क्रियते नाम-एकं भूत्वा अनेक भवंति, अनेक भूत्वा एकं भवति, अणु भूत्वा महद् भवति, महद् भूत्वा अणु भवति-इत्यादि विक्रियायां जायते तद् वैक्रियमिति ।
आहारकमालेखयति
निर्वृत्त्यर्थकम् आहारकम् ॥ ३० ॥
आहियते-निर्वय॑ते इति आहारकम् । केन ? इति चेत् प्रमत्तसंयतेन चतुर्दशपूर्वधरेण इति पूरणीयम् । किमर्थम् ? इति चेत् सूक्ष्मपदार्थनिर्ज्ञानार्थम् , असंयमपरिजिहीर्षया वा संदेहनिवारणाय इति । तैजसम् उत्तेजयति
तेजोनिमित्तं तैजसम् ॥ ३१ ॥ तेजसो विकारो तेजोमयम् , तेजः स्वतत्त्वं शापाऽनुग्रहप्रयोजनत्वमिति । कार्मणं परिकर्मयति
कर्मोपादानं कार्मणम् ॥ ३२ ॥
कर्मणो विकारः कार्मणम्-कर्म उपादानं यस्य तत् कामणमित्यर्थः । कर्मणा-क्रियया-प्रवृत्या संगृह्यमाणत्वेन कामणमभिधीयते । एतदपि सर्वेषामेव देहधारिणाम् । नवरम् एतदेव कार्मणं शरीरं सर्वशरीरमूलभूतम्-संसारकारणं च ।
For Private And Personal Use Only

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92