Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यदस्ति जडं तत् सर्वम् उपग्राहि, उपघाति च ॥ ४६॥ यावद् आत्मा परिस्पन्दते नात्यन्तं विभावरहितो भवेत् तावदेव पुद्गलापुद्गलरूपं जडं वस्तु आत्मनः उपग्राहि, उपघाति च भवति । यथा हि विषशस्त्रादिकमपि विवेकपूर्वकं व्यापारयतो जनस्य उपगृह्णाति-तदेव च निर्विवेकेन व्यापारयतो घातयति-तथैव एतदपि जडं वस्तु उपग्रहोपघातपरतया समवगन्तव्यम् । मूर्ताऽमूर्त जडम् ॥४७॥ जडमपि वस्तुचक्रम् मूर्ताऽमूर्तत्वेन द्विधा नेयम् , अाकाशादिरूपं जडम् , अमूर्तम्-तच्च प्रतीतम् तदितरत् तु मूर्तम् धर्माधर्मपुद्गलरूपम् । ___ गतिदाता धर्मः ॥४८॥ परिस्पन्दिनो हि आत्मनो गतिदाता ऊर्ध्वम् ऊर्ध्वम्विकाशं प्रापयिता धर्म:-स च अहिंसादिलक्षण तथा च भगवतीसूत्रम्-" धम्मत्थिकायस्स णं भंते। केवइया अभिवयणा परमत्ता ? गोयमा ! अणेगा अभिवयणा पमत्ता, तं जहा-धम्मे ति वा, धम्मत्थिकाए इ वा, पाणाइवायवेरमणे ति वा, मुसावायवेरमणे ति वा एवं जाव परिग्गहवेरमणे, कोहविविगे जाव xमणगुत्ती ति वा, वइगुत्ती ति वा, कायगुत्ती ति वा-जे याऽवाले तहप्पगारा सव्वे ते धम्मत्थिकायस्स अभिवयणा." (शतक २०, उद्देशक द्वितीय ) यथा च गतिं विना क्वचित्. कुहरगतमुदकं परिशटद् अपेयं भवति, तथैवाऽयं परिस्पन्दमान अात्मा गति-अहिंसादिप्राप्ति-लक्षणविकास विना परिशटमान:-अमन्यः-स्वरूपप्राप्तौ अयोग्यो भवति इति । यस्तु For Private And Personal Use Only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92