Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हारकयोर्योगपद्यासंभवेन न कदाचिदपि एकस्यैव आत्मनो युगपदेव शरीरपञ्चकं भवेत् इति । तेषामेव शरीराणां विशेषप्रतिपयर्थ प्रतिपादयति
निरुपभोगमन्त्यम् ॥ ४० ॥ अन्ते भवम्-अन्त्यम्. किं तत् ? कार्मणम् । इन्द्रियादिप्रणालिकया शब्दादीनामुपलब्धिरुपभोगः, तदभावात् एतत् कार्मणं निरुपभोगम् ।
प्रादुर्भावमापद्यमानानि अमूनि शरीराणि किमविशेषण संभवन्ति ? उतास्ति कश्चिद् विशेषः ? इति स्पष्टयितुमाह
गर्भसंमूर्छनजमाद्यम् ॥ ४१ ॥ सूत्रक्रमापेक्षया-श्रादौ भवमाद्यम्-औदारिकमित्यर्थः । यद् गर्भजम्-मातृ-पितृसंयोगेन जायमानम्-जरायुजम्-अण्डजम्-पोतजम्, यच्च संमूर्छनजम् मातृ-पितृसंयोगमन्तरा-अनल-जल-स्थलादिसामय्या-संभविष्णु तदेतद् उत्पत्या द्विप्रकारमपि सर्वम् औदारिकम् अवसेयम् । वैक्रियस्योत्पत्तिप्रकारं प्ररूपयति
औपपादिकं वैक्रियम् ॥ ४२ ॥ उपपादेन भवम्-औपपादिकम्-तत्सर्व वैक्रियं विज्ञेयम् । तञ्च देवानाम्, नारकाणां च । स्वामित्वमन्तरा संमूछेनजऔपपादिकयोर्विशेषो नास्माभिरवगत इति । वैक्रियस्य अन्यमपि उत्पत्तिप्रकार पाह
लब्धिप्रत्ययं च ॥४३॥ तदेतद् उपरि निर्दिष्टं वैक्रियं लब्धिप्रत्ययमपि संभवति.
For Private And Personal Use Only

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92