Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माह-'प्राक् तैजसात् ' इति । औदारिकाद् असंख्येयगुणप्रदेशं वैक्रियम् , ततः असंख्येयगुणप्रदेशमाहारकम् इति । उत्तरयोः तैजसकार्मणयोः समप्रदेशसंशयस्य दूरीकतुमाह अनन्तगुणे परे ॥३५॥ 'प्रदेशतः' इत्यनुवर्तते, तेनैव अभिसंबन्धः क्रियतेआहारकात् तैजसं प्रदेशतोऽनन्तगुणं, ततः कार्मणम् अनन्तगुणमिति । औदारिकशरीरयुतो गच्छन् प्राणी भित्त्यादौ प्रतिघातं लभमानस्ततो निवर्तते, तथा तैजस-कार्मणमात्रयुतोऽपि यत्र कापि संचरन् प्राणी प्रतिघातं लभते न वा ? इति निराकर्तु व्याकुरुते पुनरप्रतिघाते ॥ ३६॥ मूर्तस्य मूर्तान्तरेण व्याघातः प्रतिघातः, मूर्तत्वेऽपि सूक्ष्मपरिणामात् स नास्ति-अनयोः-इति अप्रतिघाते । मूर्तमपि तेजः सूक्ष्मत्वेन अयापिण्डे प्रविशद् नाऽऽयसैः परमाणुस्कन्धैः प्रतिहन्यते, तथैव मूर्तयोरपि तेजस-कार्मणयोर्नास्ति क्वापि वज्रपटलपर्वतादिषु प्रतिघात इति । औदारिकादिभ्योऽनयोः किमियानेव विशेषः ? उतास्ति अन्योप कश्चन ? इति वचः समाधातुं संधत्ते अनादिसम्बन्धे च ॥ ३७ ॥ 'च' शब्दो व्यवस्थितविकल्पार्थः । अनादिसम्बन्धे चात् तु सादिसम्बन्धे अपि । कार्यकारणभावसंतत्या बीजवृक्षवत् जीवन तयोः अनादिकः सम्बन्धः । विशेषापेक्षया तु. सादि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92