Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 54
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४३ लब्धिश्व तपोविशेषात प्राप्तः शक्तिविशेषः, सा एव प्रत्ययः कारणं यस्य तत् । एतच्च लब्धिप्रत्ययं भावसाध्वादीनां संभवति । ' औपपादिकं वैक्रियं लब्धिप्रत्ययं च ' इति एकयोगे - नाऽपि सिद्धे पृथक्सूत्रमिदम् उत्तरार्थमिति । अतः तैजसमपि ॥ ४४ । वैक्रियवद् एतत् तैजसमपि केषाञ्चित् सुतपस्विनां लब्धिप्रत्ययमपि संभवति । स्वरूप- स्वामिनिर्धारणपूर्वकम् आहारकमुल्लिखतिशुभं विशुद्धम् अव्याघाति च आहारकं प्रमत्तसंयतस्यैव ॥ ४५ ॥ , " शुभं - शुभद्रव्योपचितम् विशुद्धं - निर्मलद्रव्योपचितम्, निरवद्यम् इति यावत् अप्रतिघाति - व्याघातरहितम्, व्याधातश्च पूर्वोक्तस्वरूपः । स्वामी चास्य प्रमत्तः संयमी । श्रप्रमत्तानां महानुभावानां विसदृशेदृशचेष्टाया विरहात् । प्रयोजनं चास्य कस्मिंश्चिदर्थे संदिहानो निश्चयाधिगमार्थं क्षेत्रान्तरितस्य भगवतः समीपे औदारिकेण अशक्यगमनं मत्वा लब्धिप्रत्ययमेव आहारकं उत्पादयति, छिन्नसंशयश्च भगवन्तं दृष्ट्वा पुनरागत्य तद् विसृजति । यदा आहारकशरीरं निर्वर्तयितुमारभते तदा प्रमत्तो भवति इति एतत् ' प्रमत्तस्य ' उच्यते । लब्धिप्रत्ययत्वेन वि क्रियारूपत्वेन च एतदपि वैक्रिये समन्तर्भावयितुमुचितम् तथापि स्वामिप्रयोजनयोर्विशेषतावैशद्याय एतत् पृथक् सूत्रितमिति शरीराणि । अथ आत्मन एव उपग्राहकान् उपघातकांश्च नामतः स्वरूपतश्च दर्शयति- T For Private And Personal Use Only

Loading...

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92