Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'चलणसहायो धम्मो' इत्यादिशास्त्रेण प्रसिद्धः अमूर्तरूपो धर्मास्तिकायनामा पदार्थ:-जीव-जडगतो अपेक्षाकारणत्वेन जैनदर्शने एव स्वीकृतः-सोऽपि अत्र सूत्रे तन्त्रतया विवक्षितःअप्रधानभावेन-इति ।
आक्षेपः
ननु त्वया नवीनेन अर्वाग्दृशा स प्रसिद्धो धर्मास्तिकायः -अत्र सूत्रे अप्रधानभावेन एव केवलं भिन्नव्याख्यासंग्रहदशेनाय एव उल्लिखितः-न च स एव प्रधानभावेन अत्र निर्दिष्टः, तदियं कीदृशी खमनीषिका?
परिहारः
न चेयं स्वमनीषिका, किन्तु आगमपूर्वकम् , शिष्टानामुक्तिपूर्वकं चैतद् निर्दिष्टम्-उपर्युक्त-श्रीभगवतीसूत्रस्थपाठ एव अत्र निर्दिष्टं मम नवीनमपि व्याख्यानं दृढयति-इति न एतस्य व्याख्यानस्य आगमपूर्वकत्वे कोऽपि शङ्काकणः किञ्च, भगवान् सिद्धसेनोऽपि स्वीयवचनेन एतदेव व्याख्यानं समर्थयति. तथा च तद्वचनम् -- "प्रयोग-विस्रसाकर्म-तदभावस्थितिस्तथा । लोकानुभाववृतान्तः किं धर्माधर्मयोः फलम् ॥ २४ ॥
निश्चयद्वात्रिंशिका–१६. ईदृशावेव आक्षेप-परिहारौ वक्ष्यमाणे अधर्मसूत्रेऽपि समवबोध्यौ.
गतिप्रतिषेधी अधर्मः ॥४६॥ अधर्मो हि आत्मनो विकासरूपां गति प्रतिषेधति, ततश्च
For Private And Personal Use Only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92