Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वस्तुतस्तु ये निजभाननाशकाः कषायादिसंस्काराः ते एव कार्मणपदवाच्याः तेषां भावकर्मत्वेन सुप्रतीतत्वात् । एतत् तु कार्मणं शरीरं कर्मपुद्गलमयत्वेन द्रव्यतः कर्मरूपम् । यद्यपि सर्वाण्येव शरीराणि कर्मकृतानि, तथापि न तानि कार्मणानिकर्ममयानि, किन्तु कर्मनिमित्तकानि एतत् तु कर्ममयमेव इति कार्मणेतरयोर्विशेषः--ौदारिकम् , औदारिकपुद्गलमयम् , वैक्रियं वैक्रियपुद्गलमयम् , आहारकम् आहारकपुद्गलमयम् , तैजसं च तेजःपुद्गलमयम् , एतानि चत्वार्यपि तत्तत्पुद्गलमयानि कर्मसहकारीणि, कार्मणं तु कर्ममयमेव । एतदेव च वैदिकशासने 'लिङ्गशरीर' नाम्ना प्रथितमिति ।
ननु-औदारिकवत् इतरेषां कस्मान्न चानुषत्वम् १ अत आह
परं परं सूक्ष्मम् ॥ ३३ ॥ पर-शब्दस्य अनेकार्थकत्वेऽपि विवक्षातः व्यवस्था इति अर्थगतिरिष्टा-यथा औदारिकं स्थूलम् , ततः सूक्ष्मं वैक्रियम् , ततः सूक्ष्मम् आहारकम् , ततः सूक्ष्मं तैजसम् , तैजसात् कार्मणं सूक्ष्मम् इत्यर्थः ।
वीप्सितपरपदसहोचरितसूक्ष्मशब्दबोध्यस्य प्रदेशपदवाच्यपरमाएवपकृष्टत्वं मा जायताम्-अत आह
प्रदेशतोऽसंख्येयगुणं प्राक् जसात् ॥ ३४ ॥
प्रदिश्यन्ते अविभागित्वेन-प्ररुप्यन्ते-इति प्रदेशाः परमाणवः । संख्यामतीतोऽसंख्येयः, असंख्येयो गुणो यस्य तद् असंख्येयगुणम् । कुतः ? प्रदेशतः-न तु अवगाहतः । 'परं परम्' इत्यनुवृत्तेः 'पा कर्मणात् ' प्रसङ्गे सति तत्रिवृत्त्यर्थ--
For Private And Personal Use Only

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92