Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इन्द्रलिङ्गम् इन्द्रियम् ॥ १३ ॥ 'इन्द्रस्य लिङ्गम्' इन्द्रियम्-इति व्युत्पत्त्या इन्द्रस्य आत्मनः तदावरणक्षयोपशमे सति स्वयमर्थान् ग्रहीतुमसमर्थस्य यद् अर्थोपलब्धिनिमित्तं तदेव इन्द्रियम्-इत्यर्थः । तद् द्विविधम्-द्रव्येन्द्रियम् भावेन्द्रियं च ॥ १४ ॥ तद् इन्द्रियं द्विविधम्-द्विप्रकारमिति । उपयोगानात्मकं द्रव्येन्द्रियम् , उपयोगात्मकं भावेन्द्रियम् । उपयोगश्चात्र सत्तारूपः, प्रवर्तमानो वा ग्राह्यः, ततश्च न लब्धिरूपे भावेन्द्रिये अव्याप्तिः । तदुक्तं आगमे-" अणुवओगो दव्वं, उवोगो भावो " इति । पुनस्तत् प्रत्येकमपि द्विविधम्-इत्याहतत्र आद्यं द्विप्रकारम्-निर्वृत्तिरूपम् , उपकरणरूपंच॥१श! तत्र द्रव्येन्द्रिय-भावेन्द्रिययोर्मध्ये आद्यम्-प्रथमं द्रव्येन्द्रियं द्विप्रकारकम्-द्विरूपमिति । निर्वय॑ते-निष्पाद्यते इति व्युत्पत्त्या कर्मनिष्पनत्वं निर्वृत्तिरूपम् । तदपि द्विविधम्-बाह्याऽभ्यन्तरभेदात् । तत्र तावद् बाह्यनिवृत्तेः स्वरूपमाह-आत्मप्रदेशाधिकरणकनामकर्मेन्द्रियापादितावस्थाविशेषपुद्गलप्रचयरूपम् । आभ्यन्तरनिवृत्तेः स्वरूपं तु नेत्रादीन्द्रियसंस्थानावस्थितात्मप्रदेशाकृतिवृत्तिरूपम् । उपकरणेन्द्रियमपि द्विविधम्बाह्याभ्यन्तरभेदात् । निवृत्त्युपकारजनकत्वम् उपकरणेन्द्रियलक्षणम्-बाह्यम् अक्षिपत्र-पक्ष्मद्वयादि । प्राभ्यन्तरं तु कृष्णशुक्रमएडलरूपम् । एवं शेषेष्वपि ज्ञेयम् इति द्रव्येन्द्रियम् । अन्त्यमपि द्विविधम्-लब्धिरूपम् उपयोगरूपं च ॥ १६ ॥ अन्त्यं भावेन्द्रियं द्विविधम्-द्विप्रकारम्-लम्भनं लब्धिः, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92