Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
देहाध्यासो यदि नश्येत् त्वं कर्ता न हि कर्मणाम् । न हि भोक्ता च तेषां त्वं धर्मस्यैतद् गूढं मतम् ।। ११४ ॥ मोक्ष एव ततो धर्माद्-मोक्षात्मा च त्वमेव भोः !। अनन्तदर्शनं त्वं च अव्यावाधरूपस्त्वकम् ॥ ११५ ॥ शुद्धो बुद्धश्चिदात्मा च स्वयं ज्योतिः सुखालयम् । विचारय ततो विद्धि स्वयं बहु तु किमुच्यते ॥ ११६ ॥ सर्वेषां ज्ञानिनामत्र समाप्तिमेति निश्चयः । उक्त्वैवं गुरुणा मौनं समाधौ सहजे धृतम् ॥ ११७ ॥ यदा विभावभावः स्याद् भोक्ता कर्ता च कर्मणः । यदाविभावभावः स्याद् भोक्ता को न कर्मणः ॥११८।। स्वाभाविक्यस्ति वा वृत्तिः शुद्धा वा चेतनामयी। तस्याः कर्ताऽस्ति भोक्ताऽस्ति निर्विकल्पस्वरूपभाक् ।।११६॥ उक्तो मोक्षो निजा शुद्धिः स मार्गो लभ्यते यतः । संक्षेपेणोदितः शिष्य ! नग्रन्थः सकलः पथः ॥ १२० ।।
अत एव चजीवोऽस्ति स च नित्योऽस्ति कर्ताऽस्ति निजकर्मणः । भोक्ताऽस्ति च पुनमुक्तिमुक्त्युपायः सुदर्शनम् ॥ ४३ ॥ षट्स्थानीयं समासेन षड्दर्शन्यपि उच्यते । प्रोक्ता सा ज्ञानिभिज्ञातुं परं तत्त्वं धरास्पृशाम् ।। ४४ ॥
[पएणां स्थानानां-पूर्वतनश्लोकदर्शितानां समाहारः पदस्थानी | षण्णां दर्शनानां समाहारः षड्दर्शनी]
आत्मभ्रान्तिसमो रोगो नास्ति भिषग् गुरूपमः । गुरोराज्ञासमं पथ्यं ध्यानतुल्यं न चौषधम् ॥ १२६ ।।
For Private And Personal Use Only

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92