Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३ निरूपिते प्रमाणे अधुना नयाः प्रस्तूयन्ते प्रमाणं हि निश्चायकम्, नयास्तु नायकाः- प्रेरकाः -प्रापकाः - प्रवर्तका इति तयोर्द्वयोरपि समाने चित्ताभिप्रायरूपत्वेऽपि क्रियाविशेषात् वैशिष्ट्यम् इति प्रमाणात् नयं विभज्य नयं व्युत्पादयति नयति प्रमाण संगृहीतं बोधं व्यवहारम् - इति नयः ॥ १ ॥ • नयति - प्रेरयति, प्रापयति, प्रवर्तयति च - इति नाथन्तरम्. नयति हि द्विकर्मा-अत्र च ' बोधम् ' इति गौणं कर्म, व्यवहारम् ' इति च मुख्यम् तस्यैव ( व्यवहारस्य ) नयते : मुख्यसंसर्गात् पूर्वोक्तेन प्रमाणेन संग्रहीतो बोधः नहि एकेनैव समयेन युगपद् व्यवहारपथं प्रापयितुं शक्यः, किन्तु यथाकालं श्रर्थक्रियाकरव्यवहारानुकूलतया तदंशा एव ( बोघांशा एव ) व्यवहारमार्ग नेतुं शक्याः - यश्च तदंशानाम् नायकः - नयनविधायी स एव वक्तुरभिप्रायविशेषो नयः । उदाहरणेन च नयं स्पष्टयति - यथाहि एक एव मनुष्यः प्रमाणपुरस्सरं कस्यचित् पितृत्वेन, कस्यचित् पितृव्यत्वेन, कस्यचित् पितामहत्वेन, कस्यचित् मातुलत्वेन, कस्यचित् पितृष्वसृस्वामित्वेन, कस्यचित् मातृष्वसृपतित्वेन, कस्यचित् श्वसुरत्वेन, कस्यचित् जामातृत्वेन, कस्यचित भागिनेयत्वेन केनचित् एकेन प्रमात्रा ज्ञातः, स च प्रमाता यद्यपि तत्पुरुषविषये तान् सर्वानपि संबंधान प्रवृत्ति निवृत्तिनिश्चायिना प्रमाणेन अवबुद्धवान्- किंतु न हि तान् एकस्मिन् एव समये स्थले वास प्रमाता उपयोक्तुमलं भवेत् यदा च तस्य पुरुषस्य चैत्र - पितृत्वेन प्रमातुः प्रयोजनम् तदा प्रमाता प्रमाणसंग्रहीत सर्व सम्बन्धबोधान् हृदयगतानपि गौणान् कृत्वा पितृनयेन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92