________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३
निरूपिते प्रमाणे अधुना नयाः प्रस्तूयन्ते
प्रमाणं हि निश्चायकम्, नयास्तु नायकाः- प्रेरकाः -प्रापकाः - प्रवर्तका इति तयोर्द्वयोरपि समाने चित्ताभिप्रायरूपत्वेऽपि क्रियाविशेषात् वैशिष्ट्यम् इति प्रमाणात् नयं विभज्य नयं व्युत्पादयति
नयति प्रमाण संगृहीतं बोधं व्यवहारम् - इति नयः ॥ १ ॥
•
नयति - प्रेरयति, प्रापयति, प्रवर्तयति च - इति नाथन्तरम्. नयति हि द्विकर्मा-अत्र च ' बोधम् ' इति गौणं कर्म, व्यवहारम् ' इति च मुख्यम् तस्यैव ( व्यवहारस्य ) नयते : मुख्यसंसर्गात् पूर्वोक्तेन प्रमाणेन संग्रहीतो बोधः नहि एकेनैव समयेन युगपद् व्यवहारपथं प्रापयितुं शक्यः, किन्तु यथाकालं श्रर्थक्रियाकरव्यवहारानुकूलतया तदंशा एव ( बोघांशा एव ) व्यवहारमार्ग नेतुं शक्याः - यश्च तदंशानाम् नायकः - नयनविधायी स एव वक्तुरभिप्रायविशेषो नयः ।
उदाहरणेन च नयं स्पष्टयति - यथाहि एक एव मनुष्यः प्रमाणपुरस्सरं कस्यचित् पितृत्वेन, कस्यचित् पितृव्यत्वेन, कस्यचित् पितामहत्वेन, कस्यचित् मातुलत्वेन, कस्यचित् पितृष्वसृस्वामित्वेन, कस्यचित् मातृष्वसृपतित्वेन, कस्यचित् श्वसुरत्वेन, कस्यचित् जामातृत्वेन, कस्यचित भागिनेयत्वेन केनचित् एकेन प्रमात्रा ज्ञातः, स च प्रमाता यद्यपि तत्पुरुषविषये तान् सर्वानपि संबंधान प्रवृत्ति निवृत्तिनिश्चायिना प्रमाणेन अवबुद्धवान्- किंतु न हि तान् एकस्मिन् एव समये स्थले वास प्रमाता उपयोक्तुमलं भवेत् यदा च तस्य पुरुषस्य चैत्र - पितृत्वेन प्रमातुः प्रयोजनम् तदा प्रमाता प्रमाणसंग्रहीत सर्व सम्बन्धबोधान् हृदयगतानपि गौणान् कृत्वा पितृनयेन
For Private And Personal Use Only