________________
Shri Mahavir Jain Aradhana Kendra
१४
पितृसम्बन्धमाविष्कृत्य प्रकटीकरोति ' श्रयमस्ति चैत्रपिता इति । एतत्प्रकटीकरणसमये न हि प्रमाता तान् पितृव्यतिरिक्तान् संबन्धान् विस्मरति निषेधति च. किन्तु हृदयगतप्रमाणसंगृहीतोधेषु यो बोधो यदा, यत्र, यथा वा अर्थक्रियाकारी तं तदा, तत्र, तथा प्रयुज्य, अन्यांश्च गौणीकृत्य प्रवर्तमानस्तेन व्यवहारसाधकनयेन प्रमेयं समादत्ते, प्रमेयात निवर्तते, उदास्ते - नयो हि रीति - अपरनामा व्यवहारसाधकः - व्यवहारमार्गानुसारी चित्ताभिप्रायविशेषः - एवमेव तस्यैव पुरुषस्य यदा मोहनदास मातुलत्वेन प्राप्ते प्रयोजने तेन मातुलनयेन अन्यान् सम्बन्धानुपसृज्य प्रमाता श्राविष्करोति । श्रयमस्ति स एव मोहनदासमातुलः ' - एवं चैव - चितरञ्जनश्वसुरत्वेन श्रागते प्रयोजने प्रमाता तमेव पुरुषं प्रख्यापयति ' अयमस्ति स एव चित्तरञ्जन श्वसुर : ' श्रनेनैव प्रकारेण श्रत्र उदाहरणे अन्यत्र च सर्वत्र लौकिक-लोकोत्तरव्यवहारसंभारे नेतव्या इयमेव
नयव्याख्या.
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
भट्टारक:
नयमेव संख्याति -
व्यवहाराणामसंख्येयत्वेन नया अपि असंख्याः ॥ २॥
सर्वे व्यवहारा हि सापेक्षाः सन्तः परस्परं संघटामटन्ति, ते च तादृशा एव लौकिक - लोकोत्तरकार्यसाधकाः स्युः ते च निखिला अपि संभूय लौकिकीं संख्यामतिक्रामन्ति श्रत एव व्यवहार साधकनया अपि संख्यारहिता संख्याताः संख्यावद्भिः • तथा च महावादी स्वतन्त्रविचारचणः श्रीसिद्ध सेन
46
जावइया वयण पहा तावइया चेव हुंति नयवाया । जावइया नयवाया तावइया चैव परसमया ॥४७॥
"
•
For Private And Personal Use Only
,