________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयच्छन्ति-परन्तु न तत्र कस्यचिद् दायकस्य ग्राहकस्य च कदाचिदपि जायमानो विवादलेशोऽपि दृष्टः, श्रुतो वा-केवलं यथा व्यवहारानुकूल्यं तथा तेषां दायक-ग्राहकाणां प्रवृत्तिः, सा च यथा प्रशस्यतमा तथैव जिज्ञासुजनानुकूलतया एकधा, द्विधा, त्रिधा, चतुर्धा, पोढा, अष्टधा, नवधा-ततोऽपि अनेकधा प्रमाणनिरूपणविधानं न दूषणावहम्, किन्तु विस्तररुचिजिज्ञासुचित्तानुकूल्येन संक्षिप्तरुचिशिष्यचित्तानुरञ्जनतया च तत्सवेमपि निरूपणं भूमिकापेक्षया सर्वेषामेव अधिकारानुरूपं उपयोगि एव. नातः केनापि प्रामाणिकन तभेदोपभेदखण्डनमण्डनाय प्रयासो विधेयः, नाऽपि लाघव-गौरवे च संदW शब्दाशब्दि दूषणादृषणि च योद्धव्यम्-यैश्च सम्प्रदायविमूढः प्राचीनार्वाचीनः जैन-जैनेतरैः तद् युद्धं विधाय अद्यावधि थूस्कृतम्-तत् तेषां थूत्कृतमेव-जिनाज्ञादृषकम् (इति परिहारः) किमधिकेन ?
एतदेव स्मर्यते महावादिवचः----- " प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम् " इति प्रमाणनिरूपणे प्रथमं प्रमाणकाण्डम्.
For Private And Personal Use Only