Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " नायं वस्तु न चाऽवस्तु वस्त्वंशः कथ्यते बुधैः । नाऽसमुद्रः समुद्रो वा समुद्रांशो यथैव हि " ॥ इत्यादि. इति नयाः पूर्व तावत् प्रमाणकाण्डे प्रमाणानि, नयकाण्डे च नया निरूपिताः. यद्यपि व्यवहारसाधकयोस्तयोः प्रमाण-नययोर्न निरूपणप्रयोजनम्-लोकसंसिद्धत्वेन. तथापि यथा तौ प्रमाण-नयो यावता व्यवहारप्रवणौ तावतैव परमार्थनिमित्तभृतावपि-इति नात्र तनिरूपणा विफला. तथाहि-" के अहं आसी" इत्यादि. विवेकमन्तरैव अयं चिद्रूपोऽपि सुखमयः प्राणी संसारान्तर अटाट्यमानोष्टाट्यमानो न परिश्रान्तः, प्रत्युत तत्र अटनायामेव सुखमानी नवनीतार्थ जलमेव मनाति-अयमस्य एतादृशी सभ्रान्ता दशा प्रमाण-नययोः विविक्तं संज्ञानं विनैव संजाता. यदि अयं अद्यत एव मध्यस्थीभूय प्रमाण-नयविवेकपूर्वकमेव प्रवर्तेत तदाऽवश्यं सम्यग्ज्ञानी भवेत् , तथा भूत्वा च स्वं स्वरूपं निरीक्षेत निरीक्ष्य च यथा प्रेक्षका नाटकरङ्गं निभाल्य न स्वयं विस्मरन्ति, नाट्यं च स्वतः पृथग्भूतं प्रेक्षन्ते तथा सोऽपि संसारे प्रवर्तमानो ज्ञातपुत्र-बुद्धदेवादिवत् इहैव जन्मनि, जन्मान्तरे वा निर्वाणं प्राप्नुयादिति परंपरया निर्वाणनिमित्तभूतौ प्रमाणनयौ अतो नात्र तदुल्नेखोऽलेखः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92