Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१७
ऋजुसूत्र हि ऋजु एव सूत्रयन् - वर्तमानतामेव समपेक्षमाणः धर्मार्थिके एव नये स्वात्मानं योजयति.
समानार्थेषु अपि शब्देषु निरुक्तभेदाद् वाग्व्यवहारमाश्रित्य भिन्नमर्थं समभिरोहन् समभिरूढोऽपि नयः न शब्दनयात स्वात्मानं भिन्नं शब्दाययितुं शक्तः
शब्दानां निजनिजप्रवृत्तिनिमित्तभूतक्रियायुक्तमर्थमाविर्भावयन् एवंभूतोऽपि नयः शब्दनयशरीरे एवं अन्तर्भवति, एवं ग्रन्थान्तरे विस्तरेण व्याख्याता एते सप्ताऽपि नया अत्र नयत्रये एव संत्रौकन्ते.
किंच, एवमेव क्रियाप्रधानः क्रियानयः, विधिप्रधानो विधिनयः, निषेधप्रधानो निषेधनयः, ज्ञानप्रवणो ज्ञाननयः, गुणप्रवणो गुणनयः - एवं रीत्या नैके नया स्वनेयापेक्षया श्रत्र नत्र एव प्रविशन्ति - इति.
स्वनेयं नयन्तः, अन्यनेयं समुपेक्षमाणा एते शमभृतः । श्रीरत्नप्रभसूरयोऽपि चैतदेव समृदु: -
" निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां
वस्तूनां नियतांशकल्पनपराः सप्त श्रुतासङ्गिनः । औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नया
वेदेकान्तकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नया: " || “ अहो ! चित्रं चित्रं तव चरितमेतन्मुनिपते ! स्वकीयानामेषां विविधविषयव्याप्तिवशिनाम् । विपक्षापेक्षाणां कथयसि नयानां सुनयतां विपक्षक्षेप्तॄणां पुनरिह विभो ! दुष्टनयताम् ||
-
For Private And Personal Use Only

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92