Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं संख्यातीतानपि नयान् समुचित्य संगृह्णाति ग्रन्थकृत् ते च द्विधा ॥३॥ पदार्थाः हि निखिला समुचिताः सन्तो द्वित्व एव निविशन्ते-पदार्थाः, पदार्थधर्माश्च इति । यद्यपि पदार्थ-पदार्थधर्माणां सत्यपि समभिन्नत्वे लोके क्वचित् प्रधानतया पदार्थस्य व्यवहारः, क्वचिच्च प्रधानतया तदभिन्नतद्धर्मव्यवहारः-एवं द्वयोरपि व्यवहारयोः निजनिजभूमिकया प्रधानत्वविवक्षणेन तत्साधकनयानामपि द्वित्वं समुपकल्पितं तैः तैः शास्त्रविशारदैःइति नयानां द्वित्वं संसिद्धिसोधसमारूढम्. नामतो द्वित्वमाह द्रव्यार्थिकः धर्मार्थिकश्च ।। ४ ॥ एको हि वचनव्यवहारः स्वकार्यसाधनायां द्रव्यमेव प्रमुखतया समवलम्बते-तद्धास्तु समुपसृजति. यथा च अयम् आत्मा, एतद् जडम्, पुद्गलं वा। अन्यश्च वाग्व्यवहारः स्वकार्यसिद्धी द्रव्यधर्मानेव मुख्यभावेन भजते. तद्धर्माधारं द्रव्यं तु स्वव्यवहारक्रोडीकरोति-यथा च अयम् प्रात्मा नित्यानित्यः, एतत् पुद्गलं निर्जीवजलरूपम्, शीतलम् , स्निग्धं वा. नयानां व्यवहारानुगामित्वन, तत्साधकत्वेन च संख्यातीतत्वेऽपि अस्मिन्मेव नामयुगले-अन्तर्भावः सुकरः सुज्ञानश्च. द्रव्याणि अर्थयते-व्यवहारसिद्धौ अभिलपति इति द्रव्यार्थिकः सकलद्रव्यविषयकव्यवहारनेता । धर्माश्च द्विधा-केचन द्रव्यसहजाः गुणापरनामख्याताः, केचन द्रव्ये क्रमेणेवाऽऽविभविष्णव: For Private And Personal Use Only

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92