Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 34
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कदापि न तयोरैक्यम् द्वैतं कालत्रिके तयोः ॥ ५७ ॥ आत्मानं शङ्कते आत्मा स्वयमज्ञानतो ध्रुवम् । यः शङ्कते स वै आत्मा स्वेनाहो ! स्वीयशङ्कनम् " ॥५॥ आक्षेप:--- " शिष्ये भगवता प्रोक्ता आत्मास्तित्वस्य युक्तयः । ततः संभवनं तस्य ज्ञायतेऽन्तर्विचारणात ।। ५६ ।। तथापि तत्र शङ्काऽऽत्मा नश्वरः, नाविनश्वरः । देहसंयोगजन्मास्ति देहनाशात् तु नाशभाक् ॥ ६० ।। अथवा क्षणिकं वस्तु परिणामि प्रतिक्षणम् । तदनुभवगम्यत्वान्नात्मा नित्योऽनुभूयते " ॥ ६१ ॥ परिहारःदेहमानं तु संयोगि दृश्यं रूपि जडं धनम् । जीवोत्पत्ति-लयावत्र नीतो केनानुभूतिताम् ? ॥ ६२ ॥ उत्पत्ति-लयबोधौ तु यस्यानुभववर्तिनौ । स ततो भिन्न एव स्याद् नान्यथा बोधनं तयोः ॥ ६३ ॥ दृश्यन्ते ये तु संयोगा ज्ञायन्ते ते सदात्मना । नात्मा संयोगजन्योऽतः किन्त्वात्मा शाश्वतः स्फुटम् ।।६४॥ जडादुत्पद्यते जीवो जीवादुत्पद्यते जडम् । एषाऽनुभूतिः कस्यापि कदापि क्यापि नैव रे ! ॥ ६५ ।। यस्योत्पत्तिस्तु केभ्योऽपि संयोगेभ्यो न जायते । न नाशः संभवेत् तस्य जीवोऽतो ध्रुवति ध्रुवम् ॥ ६६ ।। क्रोधादितारतम्यं यत् सर्प-सिंहादिजन्तुषु । पूर्वजन्मजसंस्कारात् तत् ततो जीवनित्यता ॥ ६७॥ प्रात्माऽस्ति द्रव्यतो नित्यः पयोयैः परिणामभाक् । बालादिवयसो ज्ञानं यस्सादेकस्य जायते ॥ ६८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92