Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 35
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ क्षणिकं वस्त्विति ज्ञात्वा यः क्षणिकं वदेदहो ! | स वक्ता क्षणिको नास्ति तदनुभवनिश्चितम् || ६६ ॥ [ यदि वक्ता ( आत्मा ) क्षणिकः स्यात् तदा पूर्व ज्ञात्वा पश्चात् स एव वक्तुं कथं शक्नुयात् इति तत्त्वम् ] कदापि कस्यचिन्नाशो वस्तुनो नैव केवलम् । चेन्नश्येत् चेतना सा तु कामवस्थां समाश्रयेत् ? ।। ७० ।। 44 , [ पूर्वार्धं तु स्पष्टम् | उत्तरार्धे तु यदि चेतनाऽपि घटवद् नाशं प्राप्नुयात् तदा यथा घटखण्डानि पार्थिवदशां समाश्रयन्ति वा निमित्तवशतः परिणामान्तरमपि प्राप्नुवन्ति तथा चेतनाऽपि नश्यन्ती कां दशां यायात् केषु वा अणुषु मीत् ? - इति तत्त्वम् उत्तरं तु चेतना जडतोऽत्यन्तं भिन्नत्वेन न क्वापि यातुम्, स्वयं वा क्वापि मिश्रयितुं शक्ता - अत एव सा न घटवद् नश्यन्ती अस्ति ] आक्षेप: आत्मा नो कर्मणः कर्त्ता कर्म कर्म । या सहजः स्वभावः स्यात् कर्मणो जीवधर्मता ॥ ७१ ॥ स्यादसंगः सदा जीवो बन्धो वा प्राकृतो भवेत् । वेश्वरप्रेरणा तत्र ततो जीवो न बन्धकः ॥ ७२ ॥ ततः केनापि हेतुना मोक्षोपायो न गम्यते । जीवे कर्मविधातृत्वं नास्त्यस्ति चेन्न नश्यताम् " ॥ ७३ ॥ [ उत्तरार्धे तु जीवे कर्मविधातृत्वं न सङ्गतिमङ्गति, अथ अङ्गति चेत्, तस्य स्वाभाविकत्वेन तद् नहि नश्येत् श्रतश्च न मोक्षोपायः - इति पूर्वपक्षहृदयम् ] - परिहार:--- चेतनप्ररेणा न स्यादादद्यात् कर्म कः खलु । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92