Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
यदि स्याद् भेदवान् जीवोऽनुभूयेत कथं न हि । यदस्ति सकलं तत् तु ज्ञायते कच-काचवत् ॥ ४७॥ अरेऽतो नैव आत्माऽस्ति ततो मुक्तिप्रथा था। एनामाभ्यन्तरी रेकाम् उत्कीलय प्रभो! प्रभो !" ॥४८॥
परिहार:अभ्यासाद् भासिता देह-देहिनोः समता न सा । तयोर्द्वयोः सुभिन्नत्वाल्लक्षणैः प्रकटैरहो ! ॥ ४६ ॥ अध्यासाद् भासिता देह-देहिनोः समता न सा । तयोयोः सुभिन्नत्वादसिकोशायितौ हि तौ ॥ ५० ॥ दृष्टेदृष्टाऽस्ति यो वेत्ति रूपं सर्वप्रकारगम् । भात्यज्वाध्याऽनुभूतिर्या साऽस्ति जीवस्वरूपिका ॥ ५१ ॥ खस्खविषये संज्ञानं प्रतीन्द्रियं विभाति भोः । परंतु तेषां सर्वेषां जागर्ति मानमात्मनि ।। ५२ ।। न तद् जानाति देहोऽयं नैव प्राणो न चेन्द्रियम् । सत्तया देहिनो देहे, तत्प्रवृत्ति निबोध रे ! ॥ ५३ ॥
[ तत्प्रवृत्तिम्-देहप्रवृत्तिम्-यदि न स्याद् देहे आत्मा, ततः सोऽपि (देहोऽपि ) कथं प्रवृत्तिं विधातुं शक्नुयात्इति तत्वम् ] योऽवस्थासु समस्तासु ज्ञायते भेदभाक् सदा । चेतनतामयः स्पष्टः स ह्यात्मा नान्यलक्षणः ॥ ५४ ॥ घटादिसर्व जानासि अतस्तन्मन्यते शिशो!। तं न जानासि ज्ञातारम् तद्ज्ञानं ब्रूहि कीदृशम् ॥ ५५ ॥ कृशे देहे घना बुद्धिरघना स्थूलविग्रहे । स्याद् देहो यदि आत्मैव नैवं तु घटना भवेत् ॥ ५६ ॥ केवलं भिन्न एवास्ति स्वभावो जड-जीवयोः । १ विग्रहः-शरीरम्-स्थूले शरीरे ।
For Private And Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92