Book Title: Tattvavatar
Author(s): Devchandra Kacchi, Bechardas Jivraj
Publisher: Meghji Thobhan Sheth

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir है एवं तर्कणाद्वयमध्ये का प्रमाणभूता : इति मानसशास्त्रिणो गम्भीरदृशः, योगिनश्च एव परिप्रष्टव्यास्तथ्यगवेषण परैः। एवं सापेचया पदे पदे अपेक्ष्यमाणानि इन्द्रियाणि मनश्च संक्षिप्तमत्र निरूपितानि. विस्तरार्थिभिर्विशेषार्थिभिश्च ते ते प्राचीना आम्नायाः, तदद्भ्यासिनः, तदनुभविनश्च श्राप्ताः पर्युपास्या इति - सापेक्षा बुद्धि:. अथ विवरणे एव निरपेक्षां बुद्धिं स्वरूपत आविर्भा वयन्नाह - या तु बुद्धिः इन्द्रिय मनोनिरपेक्षा - केवलं स्वाधारमात्मानमेव अपेक्षमाणा - श्रन्यं च कंचिद् अपि न प्रतीक्षमाणा बुद्धिः सा निरपेक्षा. सा चैकापि तदावरण तारतम्येन त्रिधा तथाहि - अवधिज्ञानरूपा, मनःपर्यायरूपा, केवलज्ञानरूपा च. तत्रापि अवधि - मनःपर्यायरूपबुद्धिद्वयं हि तदाधारआत्मविकास तारतम्येन अनेकधा दर्शितं शास्त्रकारैः । रूपवन्ति एव वस्तूनि प्रत्यक्षयन्ती अवधि बुद्धिस्तदाधाराणां अनेकविधवैचित्र्येण अनेकधा विचित्रा. केवलं मानसान् अरणून् प्रत्यक्षमानयन्ती मनःपर्यायबुद्धिरपि तदाधारतरतमतया विविधा. या तु केवलज्ञान बुद्धिः सा श्रनश्वरत्वेन सर्वत्र समानकारणत्वेन च सर्वेषु श्रात्मसु उत्पद्यमाना एकरूपैव -न विविधा न्यूनाधिका वा तद्विषयश्च सर्व वस्तु नास्ति तत् किंचिद् जगत्रये यत् स्यात् तदविषयः सर्वासु बुद्धिषु एषा एकैव निरपेक्षा बुद्धिः केवलम् श्रदासीन्यसंस्थापिनी - उपेक्षानिवा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92