________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
है
एवं तर्कणाद्वयमध्ये का प्रमाणभूता : इति मानसशास्त्रिणो गम्भीरदृशः, योगिनश्च एव परिप्रष्टव्यास्तथ्यगवेषण परैः। एवं सापेचया पदे पदे अपेक्ष्यमाणानि इन्द्रियाणि मनश्च संक्षिप्तमत्र निरूपितानि. विस्तरार्थिभिर्विशेषार्थिभिश्च ते ते प्राचीना आम्नायाः, तदद्भ्यासिनः, तदनुभविनश्च श्राप्ताः पर्युपास्या इति - सापेक्षा बुद्धि:.
अथ विवरणे एव निरपेक्षां बुद्धिं स्वरूपत आविर्भा
वयन्नाह -
या तु बुद्धिः इन्द्रिय मनोनिरपेक्षा - केवलं स्वाधारमात्मानमेव अपेक्षमाणा - श्रन्यं च कंचिद् अपि न प्रतीक्षमाणा बुद्धिः सा निरपेक्षा.
सा चैकापि तदावरण तारतम्येन त्रिधा तथाहि - अवधिज्ञानरूपा, मनःपर्यायरूपा, केवलज्ञानरूपा च.
तत्रापि अवधि - मनःपर्यायरूपबुद्धिद्वयं हि तदाधारआत्मविकास तारतम्येन अनेकधा दर्शितं शास्त्रकारैः ।
रूपवन्ति एव वस्तूनि प्रत्यक्षयन्ती अवधि बुद्धिस्तदाधाराणां अनेकविधवैचित्र्येण अनेकधा विचित्रा.
केवलं मानसान् अरणून् प्रत्यक्षमानयन्ती मनःपर्यायबुद्धिरपि तदाधारतरतमतया विविधा.
या तु केवलज्ञान बुद्धिः सा श्रनश्वरत्वेन सर्वत्र समानकारणत्वेन च सर्वेषु श्रात्मसु उत्पद्यमाना एकरूपैव -न विविधा न्यूनाधिका वा तद्विषयश्च सर्व वस्तु नास्ति तत् किंचिद् जगत्रये यत् स्यात् तदविषयः सर्वासु बुद्धिषु एषा एकैव निरपेक्षा बुद्धिः केवलम् श्रदासीन्यसंस्थापिनी - उपेक्षानिवा
For Private And Personal Use Only