________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यिनी, अन्याश्च ता बुद्धयः प्रवृत्तिप्रभृतिकं तत्रयं यथोचिततया
आविष्कुर्वन्ति आत्मनि-यदत्र निरपेक्षबुद्धित्रयं प्ररूपितं तदेव शिष्यशासनानुरूपं विस्तारमानीय भगवता पतञ्जलिना महर्षिणा स्वयोगानुशासने 'अतीतानागतज्ञान' 'सर्वभूतरूतज्ञान' 'पूर्वजातिज्ञान' 'परचित्तज्ञान'-'सर्वज्ञातृत्व' प्रभृतिशब्दोघेन निरदेशि विभूतिपादे विभूतिरूपतया-अतस्तद्व्याख्याविशेषविस्तरो ग्राह्यो जिघृक्षुणा तत्तत्शास्त्रान्तरात् इति निरपेक्षा बुद्धिः.
(अत्राक्षेप-परिहारौ)
ननु भोः ! नवीनग्रन्थकार ! किमेवं त्वम् एकरूपमेव प्रमाणं प्रलपसि । त्वत्तः प्राचीनाः त्वत्समानितचरणयुगलाश्च जैनाचार्याः, अन्ये च महर्षयः प्रमाणसंख्यां यथा संख्यातवन्तस्तथा त्वं कथं नाकार्षीः ?
तथाहि-अनुयोगद्वारसूत्रे एव केनचित् जैनमुरिणा प्रमाणभूरित्वमेवं प्रभाषितम्
"नाणगुणप्पमाणे चउबिहे पामत्ते, तं जहा-पचक्खे, अणुमाणे, ओवम्मे, आगमे. x पञ्चक्खे दुविहे पामते x इंदिअपञ्चक्खे अ, नोइंदियपच्चक्खे अ. ४ अणुमाणे तिविहे पामत्ते xपुव्ववं, सेसवं, दिसाहम्मवं, अोवम्मे दुविहे पसत्ते x साहम्मोवणीए अ वेहम्मोवणीए अ. ( ते द्वे अपि त्रिविधे त्रिविधे प्रज्ञप्ते) आगमे दुविहे परमत्ते X लोइए अ, लोउत्तरिए अ. ( लोइए ) भारहं, रामायणं जाव चत्तारि वेश्रा संगोवंगा. (लोउत्तरिए) दुवालसंगं गणिपिडगं आयारो जाव दिहिवाश्रो." स्याद्वादरत्नाकरे श्रीदेवमूरिपादाः प्रमाणविषये एवमाहुः
" तत् (प्रमाणम् ) द्विभेदम्--प्रत्यक्षं च परोक्षं च. तद् (प्रत्यक्षम् ) द्विप्रकारम्-सांव्यवहारिकम् पारमार्थिकं च. तत्राचं
For Private And Personal Use Only