________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
चक्षुः, श्रोत्रं च इन्द्रियं विना अन्यानि त्रीणि प्राप्यकारीणि, चक्षुः श्रोत्रे तु अप्राप्यकारिणी अर्थात् विषयसंस्पर्शमन्तरैव तद्बोधविधायिनी इति मतम्-तथागततार्किकगुरूणाम्.
जैनतार्किकाणां तु मतम्-पूर्व " पुढे सुणेइ सदं, रूवं पुण पासइ अपुढे तु " इत्यादिना दर्शितमेव अर्थात् जैनतर्कणानुसारेण चनुः मनश्च अप्राप्यकारि, अन्यानि सर्वाणि प्राप्यकारीणि-इति.
___ अब विपुले मतभेदे कतरद् मतं श्रेयः ? इति प्रश्नपतिवचनम्-त एव दातुमलंभविष्णवः-ये शरीरशास्त्रान्तर्गत-इन्द्रियविद्याविशारदा अाधुनिका वैज्ञानिकाः, प्राचीना वा शरीरइन्द्रिय-मानसशास्त्रप्रवणाः पण्डिताः.
इति इन्द्रियाणि निरूपितानि, अधुना तत्प्रवरं मनो निरूपणीयम्, तत्स्वरूपमेवम्-मनो हि द्विविधम्-द्रव्यरूपम् , भावरूपं च. मननरूपम् आत्मस्पन्दरूपं मनो भावरूपम्. परमागुरूपं यद् मनः तद् द्रव्यरूपम् तथाहि-मानसा हि परमाणवः समग्रगगने संमृद्य संमृद्य भृता इव तिष्ठन्ति, ते च विचारप्रवृत्तस्य आत्मनः विषय ग्रहणे इन्द्रियाणि इव सहायताकारिण:विचारको हि विचारं कुर्वन् विचारानुरूपान् मनसः परमाणून क्षणे क्षणे आदत्ते, निसृजति च. जैनपरिभाषया ते परमाणवः 'मनोवर्गणा ' नाम्ना प्रतीताः-ते च जडत्वेन पुद्गलपरिणामित्वेन च मूतोः, रूप-रस-गन्ध-स्पर्श-शद्ववन्तः जडपुद्गलसमानधर्मिणश्व. समग्रशरीरेण शीताऽऽतपादेरनुमवस्य आबालगोपालप्रतीतत्वात्. मनो हि शरीरव्यापि सर्वेन्द्रियसहायकं च इति जैनतर्कणा.
___ मनो हि अणुतमम् , हृदयैकदेशवर्ति च-इति अन्येषां तर्कणा, तथागततर्कणा तु नावगता.
For Private And Personal Use Only