Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ // 584 // प्रयोक्तुः फलम् श्रीसूत्रकृताङ्गं / इह जगति मनुष्यक्षेत्रे प्रवचने वा नानाप्रकारा-विचित्रक्षयोपशमात् प्रज्ञायतेऽनयेति प्रज्ञा सा चित्रा येषां ते नानाप्रज्ञाः, तया श्रुतस्कन्धः२ नियुक्ति द्वितीयमध्ययनं श्रीशीला चाल्पाल्पतराल्पतमया चिन्त्यमानाः पुरुषाः षट्स्थानपतिता भवन्ति, तथा छन्दः- अभिप्रायः स नाना येषां ते तथा तेषाम्, क्रियास्थानम्, वृत्तियुतम् नानाशीलानां तथा नानारूपा दृष्टिः-अन्तःकरणप्रवृत्तिर्येषां ते तथा तेषामिति, तेषां च त्रीणि शतानि त्रिषष्ट्यधिकानि प्रमाण सूत्रम् 30 श्रुतस्कन्धः२ मवगन्तव्यम्, तथा नाना रुचिर्येषां ते नानारुचयः, तथाहि-आहारविहारशयनासनाच्छादनाभरणयानवाहनगीतवादित्रादिषु (665) भौमादिमध्येऽन्यस्यान्याऽन्यस्यान्या रुचिर्भवति तेषां नानारुचीनामिति, तथा नानारम्भाणां- कृषिपाशुपाल्यविपणिशिल्पकर्मसेवादिष्वन्यतमारम्भेणेति, तथा नानाध्यवसायसंयुतानां शुभाऽशुभाध्यवसायभाजामिहलोकमात्रप्रतिबद्धानां परलोकनिष्पिपासानां विषयतृषितानामिदं नानाविधं पापश्रुताध्ययनं भवति, तद्यथा- भूमौ भवं भौम- निर्घातभूकम्पादिकम्, तथोत्पातंकपिहसितादिकम्, तथा स्वप्नं- गजवृषभसिंहादिकम्, तथाऽन्तरिक्षं- अमोघादिकम्, तथा अङ्गे भवमाङ्ग- अक्षिबाहुस्फुरणादिकम्, तथा स्वरलक्षणं-काकस्वरगम्भीरस्वरादिकम्, तथा लक्षणं- यवमत्स्यपद्मशङ्खचक्रश्रीवत्सादिकं व्यञ्जनंतिलकमषादिकम्, तथा स्त्रीलक्षणं रक्तकरचरणादिकम्, एवं पुरुषादीनां काकिणीरत्नपर्यन्तानां लक्षणप्रतिपादकशास्त्रपरि-8 ज्ञानमवगन्तव्यम्॥ तथा मन्त्रविशेषरूपा विद्याः, तद्यथा-दुर्भगमपि सुभगमाकरोति, सुभगाकराम्, तथा सुभगमपि दुर्भगमाकरोति दुर्भगाकराम, तथा गर्भकरां- गर्भाधानविधायिनीम्, तथा मोहो- व्यामोहो वेदोदयो वा तत्करणशीलामाथर्वणीमाथर्वणाभिधानां सद्योऽनर्थकारिणी विद्यामधीयते, तथा पाकशासनी इन्द्रजालसंज्ञिकां तथा नानाविधैर्द्रव्यैः-कणवीर // 584 // पुष्पादिभिर्मधुघृतादिभिर्वोच्चाटनादिकैः कार्होमो- हवनं यस्यांसा द्रव्यहवना ताम्, तथा क्षत्रियाणां विद्या धनुर्वेदादिकाऽपरा वा या स्वगोत्रक्रमेणायाता तामधीत्य प्रयुञ्जते, तथा नानाप्रकारं ज्योतिषमधीत्य व्यापारयतीति दर्शयति- चंदचरिय