Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रुतस्कन्धः२ सप्तममध्ययनं नालन्दीयम्, सूत्रम् 79 (802) श्रावकप्रत्याख्यानस्य सविषयता श्रीसूत्रकृताङ्ग स्थूलप्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहं प्रत्याख्यास्यामो द्विविध मिति कृतकारितप्रकारद्वयेन अनुमतेः श्रावकस्याप्रतिषिनियुक्ति द्धत्वात् तथा त्रिविधेने ति मनसा वाचा कायेन च, तथा मा इति प्रतिषेधे खलु इति वाक्यालङ्कारे मदर्थं पचनपाचनादिकं श्रीशीला० वृत्तियुतम् पौषधस्थस्य मम कृते मा कार्ट, तथा परेण मा कारयत, तत्राप्यनुमतावपि सर्वथा यदसंभवि तत्प्रत्याख्यास्यामः, ते एवंभूत श्रुतस्कन्धः 2 कृतप्रतिज्ञाः सन्तः श्रावकाः अभुक्त्वाऽपीत्वाऽस्नात्वा च पौषधोपेतत्वादासन्दीपीठिकातः प्रत्यारुह्य अवतीर्य सम्यक् पौषधं // 781 // गृहीत्वा कालं कृतवन्तः, ते तथाप्रकारेण कृतकालाः सन्तः किं सम्यक्कृतकाला उतासम्यगिति?, कथं वक्तव्यं स्यादिति?, एवं पृष्टैर्निर्ग्रन्थैरवश्यमेवं वक्तव्यं स्यात्-सम्यक्कालगता इति, एवंच कालगतानामवश्यंभावी तेषां देवलोकेषूत्पादः, तदुत्पन्नाश्च तेबसा एव, ततश्च कथं निर्विषयता प्रत्याख्यानस्योपासकस्येति ॥पुनरन्यथा श्रावकोद्देशेनैव प्रत्याख्यानस्य विषयं प्रदर्शयितुमाह-गौतमस्वाम्येवाह-तद्यथा सन्ति विद्यन्ते एके केचन श्रमणोपासकाः, तेषां चैतदुक्तपूर्वं भवति, तद्यथा-खलु न शक्नुमो वयं प्रव्रज्यां ग्रहीतुम्, नापि चतुर्दश्यादिषु सम्यक् पौषधं पालयितुम्, वयं चापश्चिमया संलेखनक्षपणया क्षपितकाया यदिवा संलेखनाजोषणया-सेवनया जोषितः- सेविता उत्तमार्थगुणैरित्येवंभूताः सन्तो भक्तपानं प्रत्याख्याय कालं दीर्घकालमनवकाङ्क्षमाणा विहरिष्यामः, इदमुक्तं भवति-न वयं दीर्घकालं पौषधादिकं व्रतं पालयितुं समर्थाः, किंतु वयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनया संलिखितकायाश्चतुर्विधाहारपरित्यागेन जीवितं परित्यक्तुमलमिति, एतत्सूत्रेणैव दर्शयति- सव्वं पाणाइवाय मित्यादि, सुगमम्, यावत्ते तथा कालगताः किं वक्तव्यमेतत्स्यात्- सम्यक् ते कालगता इति?, एवं पृष्टा निर्ग्रन्था एतदूचुः, यथा-तेसन्मनस:-शोभनमनसस्ते कालगता इति, तेच सम्यक्संलेखनया यदा कालं कुर्वन्ति तदाऽवश्यमन्यतमेषु 0 इति निषेधे (मु०)। 0 पोष० (प्र०)। 0 तदुत्पन्नश्च त्रस एव (मु०)।
Loading... Page Navigation 1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328