Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 326
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध: 2 // 792 // त्कालतां प्रतिपद्यते, तेनेदमुक्तं भवति- एवंभूतोऽस्य पुत्रो भविष्यति योऽग्निष्टोमेन यक्ष्यति / तदेवंभूतं व्यवहारनयं शब्दनयो श्रुतस्कन्ध:२ नेच्छति, लिङ्गाधभिन्नांस्तु पर्यायानेकविषयत्वेनेच्छति, तद्यथा- घटः कुटः कुम्भः इन्द्रः शक्रः पुरन्दर इत्यादि, अयमप्य सप्तममध्ययन र्थव्यञ्जनपर्यायोभयरूपस्य वस्तुनो व्यञ्जनपर्यायस्यैव समाश्रयणान्मिथ्यादृष्टिरिति / तथा पर्यायाणां नानार्थतया समभि नालन्दीयम्, सूत्रम् 81 रोहणात्समभिरूढो, न ह्ययं घटादिपर्यायाणामेकार्थतामिच्छति, तथाहि- घटनाद् घटः कुटनात्कुटः कौ भातीति कुम्भो, (804) नहि घटनं कुटनं भवति, तथेन्दनादिन्द्रः पुर्दारणात्पुरन्दर इत्यादेरपि शब्दप्रवृत्तिनिमित्तस्य न परस्परानुगतिरिति, तदयमपि विघ्नशुद्धिः मिथ्यादृष्टिः, पर्यायाभिहितधर्मवद्वस्तुनोऽनाश्रयणाद् गृहीतप्रत्येकावयवान्धहस्तिज्ञानवदिति / एवंभूताभिप्रायस्त्वयं-यदैव शब्दप्रवृत्तिनिमित्तं चेष्टादिकं तस्मिन्घटादिके वस्तुनि तदैवासौ युवतिमस्तकारूढ उदकाद्याहरणक्रियाप्रवृत्तो घटो भवति, न निर्व्यापारः, एवंभूतस्यार्थस्य समाश्रयणादेवंभूताभिधानो नयो भवति, तदयमप्यनन्तधर्माध्यासितस्य वस्तुनोऽनाश्रयणान्मिथ्यादृष्टिः, रत्नावल्यवयवे पद्मरागादौ कृतरत्नावलीव्यपदेशपुरुषवदिति / तदेवं सर्वेऽपि नयाः प्रत्येकं मिथ्यादृष्टयोऽन्योऽन्यसव्यपेक्षास्तु सम्यक्त्वं भजन्ति / अत्र च ज्ञानक्रियाभ्यां मोक्ष इतिकृत्वा ज्ञानक्रियानययोः सर्वेऽप्येते स्वधिया समवतारणीयाः। तत्रापि ज्ञाननय ऐहिकामुष्मिकयोञ्जनमेव फलसाधकत्वेनेच्छति न क्रियाम्, क्रियानयस्तु क्रियामेव न ज्ञानम्, परमार्थस्तूभयमपि समुदितमन्योऽन्यसव्यपेक्षंपङ्ग्वन्धवदभिप्रेतफलसिद्धयेऽलमिति एतदुभययुक्त एव साधुरभिप्रेतम) , साधयति, उक्तं च-सव्वेसिपि णयाणं बहुविहवत्तव्वयं णिसामेत्ता // तं सव्वणयविसुद्ध जं चरणगुणट्ठिओ साहू॥१॥॥८१॥ 8 // 792 // 7 पर्यायान्, अनेकविषयत्वेनेच्छति (मु०)। (c) सर्वेषामपि नयानां बहुविधवक्तव्यतां निशम्य / तत् सर्वनयसंमतं यत् चरणगुणस्थितः साधुः / / 1 / /

Loading...

Page Navigation
1 ... 324 325 326 327 328