Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 790 // चेत्यादिना विशेषणकदम्बकेन न श्रद्धानं कृतवान्, साम्प्रतंतुयुष्मदन्तिके विज्ञायैनमर्थं श्रद्दधेऽहम्॥एवमवगम्य गौतमस्वाम्युदक- श्रुतस्कन्धः 2 मेवाह- यथा अस्मिन्नर्थे श्रद्धानं कुरु, नान्यथा सर्वज्ञोक्तं भवतीति मत्वा, पुनरप्युदक एवमाह- इष्टमेवैतन्मे, किंत्वमुष्माच्चातुर्यामि- सप्तममध्ययन नालन्दीयम्, काद्धर्मात्पञ्चयामिकं धर्म सम्प्रति सप्रतिक्रमणमुपसंपद्य विहर्तुमिच्छामि // ततोऽसौ गौतमस्वामी तं गृहीत्वा तीर्थकरान्तिकं जगाम। सूत्रम् 81 उदकश्च भगवन्तं वन्दित्वा पञ्चयामिकधर्मग्रहणायोत्थितः, भगवताऽपि तस्य सप्रतिक्रमणः पञ्चयामो धर्मोऽनुज्ञातः, स च तं तथाभूतं (804) विघ्नशुद्धिः धर्ममुपसंपद्य विहरतीति इति परिसमाप्त्यर्थे / ब्रवीमीति सुधर्मस्वामी स्वशिष्यानिदमाह, तद्यथा- सोऽहं ब्रवीमि येन मया भगवदन्तिके श्रुतमिति / गतोऽनुगमः। # सांप्रतं नयाः, ते चामी- नैगम 1 संग्रह 2 व्यवहार 3 र्जुसूत्र 4 शब्द 5 समभिरूडै 6 वंभूता 7 ख्याः सप्तव, तेषां च मध्ये नैगमाद्याश्चत्वारोऽप्यर्थनया:अर्थमेव प्राधान्येन शब्दोपसर्जनमिच्छन्ति, शब्दाद्यास्तु त्रयः शब्दनयाः शब्दप्राधान्येनार्थमिच्छन्ति / तत्र नैगमस्येदं स्वरूपम्, तद्यथा-सामान्यविशेषात्मकस्य वस्तुनो नैकेन प्रकारेणावगमः- परिच्छेदो निगमस्तत्र। भवो नैगमो, नैकगमो वा नैगमः- महासामान्यापान्तरालसामान्यविशेषाणां परिच्छेदकः, तत्र महासामान्यं सर्वपदार्थानुयायिनी सत्ता अपान्तरालसामान्यं द्रव्यत्वजीवत्वाजीवत्वादिकम्, विशेषाः परमाण्वादयस्तद्गता वा शुक्लादयो गुणाः, तदेतत्रितयमप्यसाविच्छतीति, निलयनप्रस्थकादिदृष्टान्तैरनुयोगद्वारप्रसिद्धस्तत्स्वरूपमवसेयम्, अयं च नैगमः सामान्यविशेषात्मकवस्तुसमाश्रयणेऽपिनसम्यग्दृष्टिः, भेदेनैव सामान्यविशेषयोराश्रयणात्, तन्मताश्रितनैयायिकवैशेषिकवत् / तथा संग्रहोऽप्येवंस्वरूपः, तद्यथा-सम्यक्पदार्थानांसामान्याकारतया ग्रहणं सङ्ग्रहः, तथाहि-अप्रच्युतानुत्पन्नस्थिरैकस्वभावमेव (c) ब्रवीमीति पूर्ववत् (मु०)। // 790 //
Loading... Page Navigation 1 ... 322 323 324 325 326 327 328