Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 316
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 782 // श्रुतस्कन्धः 2 सप्तममध्ययनं नालन्दीयम्, सूत्रम् 79 (802) श्रावकप्रत्याख्यानस्य सविषयता देवलोकेषूत्पद्यन्ते, तत्र चोत्पन्ना यद्यपि ते व्यापादयितुं न शक्यन्ते तथापि त्रसत्वात्ते श्रावकस्य त्रसवधनिवृत्तस्य विषयतां प्रतिपद्यन्ते // पुनरप्यन्यथा प्रत्याख्यानस्य विषयमुपदर्शयितुमाह- भगवानाह- एके केचन मनुष्या एवंभूता भवन्ति, तद्यथामहेच्छा महारम्भा महापरिग्रहा इत्यादि सुगमम्, यावधैर्येषु वा श्रमणोपासकस्यादीयत इत्यादानं- प्रथमव्रतग्रहणम्, तत आरभ्याऽऽमरणान्ताद्दण्डो निक्षिप्तः- परित्यक्तो भवति, ते च तादृग्विधास्तस्माद्भवात्कालात्यये स्वायुषं विजहन्ति, त्यक्त्वा त्रसजीवितं ते भूयः पुनः स्वकर्म-स्वकृतं किल्बिषमादाय-गृहीत्वा दुर्गतिगामिनो भवन्ति, एतदुक्तं भवति- महारम्भपरिग्रहत्वात्ते मृताः पुनरन्यतरपृथिव्यां नारकत्रसत्वेनोत्पद्यन्ते, तेच सामान्यसंज्ञया प्राणिनो विशेषसंज्ञया वसा महाकायः चिरस्थितिका इत्यादि पूर्ववद्यावत् णो णेयाउए त्ति पुनरप्यन्येन प्रकारेण प्रत्याख्यानस्य विषयं दर्शयितुमाह भगवं च णं उदाहु इत्यादि, पूर्वोक्तेभ्यो महारम्भपरिग्रहवदादिभ्यो विपर्यस्ताः सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधव इत्यादि सुगमं यावत् णो णेयाउए भवइ त्ति, एते च सामान्यश्रावकाः, तेऽपि त्रसेष्वेवान्यतरेषु देवेषूत्पद्यन्ते, ततोऽपि न निर्विषयं प्रत्याख्यानमिति // किञ्चान्यत्भगवं च णं उदाहु रित्यादि सुगमं यावत् णो णेयाउए भवइ त्ति, एते चाल्पेच्छादिविशेषणविशिष्टा अवश्यं प्रकृतिभद्रकतया सद्गतिगामित्वेन त्रसकायेषूत्पद्यन्त इति द्रष्टव्यम् // किञ्चान्यत् 'भगवं च णं उदाहु'रित्यादि-गौतमस्वाम्येव प्रत्याख्यानस्य विषयं दर्शयितुमाह- एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा- अरण्ये भवा आरण्यकाः- तीर्थिकविशेषाः, तथा आवसथिकाः-तीर्थिकविशेषा एव, तथा ग्रामनिमन्त्रिकाः तथा कण्हुईरहस्सिय त्ति क्वचित्कार्ये रहस्यकाः क्वचिद्रहस्यकाः, एते सर्वेऽपितीर्थिकविशेषाः, तेच नो बहुसंयता हस्तपादादिक्रियासु, तथा ज्ञानावरणीयावृतत्वात् न बहुविरताः सर्वप्राणभूतजीव (r) उदाहुरित्यादि (मु०)। // 782 //

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328