Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 318
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ | // 784 // त्वात्सूत्रसिद्धमेव, इयांस्तु विशेषो- यावत्ते न म्रियन्ते तावत्प्रत्याख्यानस्य विषयस्त्रसेषु वा समुत्पन्नाः सन्तो, विषयतां प्रतिपद्यन्त इति // पुनरपि श्रावकाणामेव दिव्रतसमाश्रयणतः प्रत्याख्यानस्य विषयं दर्शयितुमाह- भगवं च णमित्यादि सुगमंयावत् वयं णं सामाइयं देसावकासियं ति देशेऽवकाशो देशावकाशः तत्र भवं देशावकाशिकम्, इदमुक्तं भवति-पूर्वगृहीतस्य दिग्व्रतस्य योजनशतादिकस्य यत्प्रतिदिनं संक्षिप्ततरं योजनगव्यूतिपत्तनगृहमर्यादादिकं परिमाणं विधत्ते तद्देशावकाशिकमित्युच्यते / तदेव दर्शयति-पुरत्था पायीण मित्यादि, पुरत्थि त्ति प्रातरेव प्रत्याख्यानावसरे दिगाश्रितमेवंभूतं प्रत्याख्यानं करोति, तद्यथा- प्राचीनं पूर्वाभिमुखं प्राच्यां दिश्येतावन्मयाऽद्य गन्तव्यम्, तथा प्रतीचीनं प्रतीच्यामपरस्यां दिशि, तथा दक्षिणाभिमुखं- दक्षिणस्यामेवमुदीच्यां दिश्येतावन्मयाऽद्य पञ्चयोजनमात्रं तदधिकमूनतरं वा गन्तव्यमित्येवंभूतं स प्रतिदिन प्रत्याख्यानं विधत्ते, तेन च गृहीतदेशावकाशिकेनोपासकेन सर्वप्राणिभ्यो गृहीतपरिमाणात्परेण दण्डो निक्षिप्तः- परित्यक्तो भवति, ततश्चासौ श्रावकः सर्वप्राणभूतजीवसत्त्वेषु क्षेमंकरोऽहमस्मि इत्येवमध्यवसायी भवति, तत्र गृहीतपरिमाणे देशे ये आरेण त्रसाः प्राणा येषु श्रमणोपासकस्यादान इत्यादेरारभ्याऽऽमरणान्तो दण्डो निक्षिप्तः- परित्यक्तो भवति, ते च त्रसाः प्राणाः स्वायुष्कं परित्यज्य तत्रैव गृहीतपरिमाणदेश एव योजनादिदेशाभ्यन्तर एव त्रसाः प्राणास्तेषु प्रत्यायान्ति, इदमुक्तं भवति-गृहीतपरिमाणदेशे सायुष्कं परित्यज्य त्रसेष्वेवोत्पद्यन्ते, ततश्च तेषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति, उभयथापि त्रसत्वसद्भावात्, शेष सुगमम्, यावत् ‘णोणेयाउए भवति'त्ति // 79 // 802 // ___ तत्थ आरेणंजे तसा पाणा जेहिंसमणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते ते तओ आउं विप्पजहंति विप्पजहित्ता (c) भवति / / 79 / / (मु०)। श्रुतस्कन्धः 2 सप्तममध्ययन नालन्दीयम्, सूत्रम् 79 (802) श्रावकप्रत्याख्यानस्य सविषयता सूत्रम् 80 (803) स्थूलवेतोच्चारः // 784 //

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328