Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 758 // राजगृहनालन्दयो त्वात्, शेषस्तु सर्वोऽपि लौकिकतीर्थिकपरिकल्पितोऽनर्थः, तदनेन विशेषणकदम्बकेन सम्यक्त्वगुणाविष्करणं कृतं भवति / श्रुतस्कन्धः२ साम्प्रतं तस्यैव सम्यग्दर्शनज्ञानाभ्यां कृतो यो गुणस्तदाविष्करणायाह-उस्सिय इत्यादि, उच्छ्रतं- प्रख्यातं स्फटिकवनिर्मलं. सप्तममध्ययन नालन्दीयम्, यशो यस्यासावुच्छ्रितस्फटिकः, प्रख्यातनिर्मलयशा इत्यर्थः, तथाऽप्रावृतं- अस्थगितं द्वारं- गृहमुखं यस्य सोऽप्रावृतद्वारः, सूत्रम् 69-71 इदमुक्तं भवति- गृहं प्रविश्य परतीर्थिकोऽपि यद्यत्कथयति तदसौ कथयतु न तस्य परिजनोऽप्यन्यथा भावयितुं-सम्यक्त्वा- (792-794) च्च्यावयितुंशक्यत इतियावत्, तथा राज्ञांवल्लभान्तःपुरद्वारेषु प्रवेष्टुं शीलं यस्य स तथा, इदमुक्तं भवति-प्रतिषिद्धान्यजनप्रवेशान्यपि यानिस्थानानि भाण्डागारान्तः पुरादीनि तेष्वप्यसौ प्रख्यातश्रावकाख्यगुणत्वेनास्खलितप्रवेशः, तथा चतुर्दश्यष्टम्यादिषु वर्जनम् तिथिषूपदिष्टासु- महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथि-8 ष्वित्यर्थः, एवंभूतेषु धर्मदिवसेषु सुष्ठ- अतिशयेन प्रतिपूर्णो यः पौषधो-व्रताभिग्रहविशेषस्तं प्रतिपूर्णं- आहारशरीरसत्कार-2 ब्रह्मचर्याव्यापाररूपं पौषधमनुपालयन् संपूर्ण श्रावकधर्ममनुचरति, तदनेन विशेषणकलापेन विशिष्टं देशचारित्रमावेदितं भवति / साम्प्रतं तस्यैवोत्तरगुणख्यापनेन दानधर्ममधिकृत्याह-समणे निग्गंथे इत्यादि, सुगमंयावत्पडिलाभेमाणे त्ति, साम्प्रतं तस्यैव शीलतपोभावनात्मकं धर्ममावेदयन्नाह- बहूहि मित्यादि, बहुभिः शीलव्रतगुणविरमणप्रत्याख्यानपौषधोपवासैस्तथा / यथापरिगृहीतैश्च तपःकर्मभिरात्मानं भावयन्, एवं चानन्तरोक्तया नीत्या विहरति-धर्ममाचरंस्तिष्ठति, चः समुच्चये, णमिति वाक्यालङ्कारे॥६९॥ 792 // // 758 // तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरियाए उत्तरपुरच्छिमे दिसिभाए एत्थ णं सेसदविया नाम उदगसाला होत्था, अणेग७ यद्यः कथ० (प्र०)।
Loading... Page Navigation 1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328