Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 293
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 759 // श्रुतस्कन्धः 2 सप्तममध्ययनं नालन्दीयम्, सूत्रम् 70-71 (793-794) राजगृहनालन्दयोवर्जनम् खंभसयसन्निविट्ठा पासादीया जाव पडिरूवा, तीसेणं सेसदवियाए उदगसालाए उत्तरपुरच्छिमे दिसिभाए, एत्थ णंहत्थिजामे नाम वणसंडे होत्था, किण्हे वण्णओ वणसंडस्स।सूत्रम् 70 // ( // 793 / / ) __ तस्सिंच णं गिहपदेसंमि भगवं गोयमे विहरइ, भगवं च णं अहे आरामंसि / अहे णं उदए पेढालपुत्ते भगवं पासावच्चिज्जे नियंठे मेयजे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छइत्ता भगवं गोयम एवं वयासी-आउसंतो! गोयमा अस्थि खलु मे केइ पदेसे पुच्छियव्वे, तं च आउसो! अहासुयं अहादरिसियं मे वियागरेहि सवायं, भगवं गोयमे उदयं पेढालपुत्तं एवं वयासीअवियाइ आउसो! सोच्चा निसम्म जाणिस्सामो सवायं, उदयं पेढालपुत्ते भगवं गोयम एवं वयासी॥सूत्रम् 71 // ( // 794 // ) तस्य चैवंभूतस्य लेपोपासकस्य गृहपतेः सम्बन्धिनी नालन्दायाः पूर्वोत्तरस्यां दिशि शेषद्रव्याभिधाना- गृहोपयुक्तशेषद्रव्येण कृता शेषद्रव्येत्येतदेवाभिधानमस्या उदकशालायाः, सैवंभूताऽऽसीदनेकस्तम्भशतसन्निविष्टा प्रासादीया दर्शनीयाऽभिरूपा प्रतिरूपेति, तस्याश्चोत्तरपूर्वदिग्भागे हस्तियामाख्यो वनखण्ड आसीत्, कृष्णावभास इत्यादिवर्णकः॥ तस्मिंश्च वनखण्डगृहप्रदेशे भगवान् गौतमस्वामी श्रीवर्धमानस्वामिगणधरो विहरति / अथानन्तरं भगवान् गौतमस्वामी तस्मिन्नारामेसह साधुभिर्व्यवस्थितः, अथ अनन्तरं णमिति वाक्यालङ्कारे उदकाख्यो निर्ग्रन्थः पेढालपुत्रः पार्थापत्यस्यपार्श्वस्वामिशिष्यस्यापत्यंशिष्यः पार्थापत्यीयः, स च मेदार्यो गोत्रेण, येनैवेति सप्तम्यर्थे तृतीया, यस्यां दिशि यस्मिन्वा प्रदेशे भगवान् श्रीगौतमस्वामी तस्यां दिशि तस्मिन्वा प्रदेशे समागत्येदं वक्ष्यमाणं प्रोवाचेति // 70-71 // 793-794 // अत्र नियुक्तिकारोऽध्ययनोत्थानं तात्पर्य च गाथया दर्शयितुमाह 0 दिग्विभागे (मु०)।

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328