Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 | / 765 // (798) खलु प्राणाः परस्परजातिसंक्रमणभाजो यतस्ततस्त्रसाः प्राणिनःस्थावरत्वेन प्रत्यायान्ति स्थावराश्च त्रसत्वेनेति / त्रसकायाच्च सर्वात्मना श्रुतस्कन्धः 2 सायुष्कंपरित्यज्यस्थावरकाये तद्योग्यकर्मोपादानादुत्पद्यन्ते, तथा स्थावरकायाच्च तदायुष्कादिना कर्मणा विमुच्यमानास्त्रसकाये सप्तममध्ययनं समुत्पद्यन्ते, तेषां च त्रसकाये समुत्पन्नानां स्थानमेतत्त्रसकायाख्यमघात्यं- अघाताह भवति, यस्मात्तेन श्रावकेण सानुद्दिश्य छ नालन्दीयम्, सूत्रम् 75 स्थूलप्राणातिपातविरमणं कृतम्, तस्य तीव्राध्यवसायोत्पादकत्वाल्लोकगर्हितत्वाच्चेति, तत्रासौ स्थूलप्राणातिपातान्निवृत्तः, तन्निवृत्त्या च त्रसस्थानमघात्यं वर्तते, स्थावरकायाच्चानिवृत्त इति तद्योग्यतया तत्स्थानं घात्यमिति / तदेवं भवदभिप्रायेण त्रसस्थावरयोविशिष्टसत्त्वोद्देशेनापि प्राणातिपातनिवृत्तौ कृतायामपरपर्यायापन्नं प्राणिनं व्यापादयतोव्रतभङ्गो भवति, ततश्चन कस्यचिदपि सम्यग्व्रतपालनस्यादित्येवमभ्याख्यातं- असद्भूतदोषोद्भावनं भवन्तोददति / यदपि भवद्भिर्वर्तमानकालविशेषणत्वेन किलायं भूतशब्द उपादीयते असावपि व्यामोहाय केवलमुपतिष्ठते, तथाहि- भूतशब्दोऽयमुपमानेऽपि वर्तते, तद्यथा- देवलोकभूतं नगरमिदम्, न देवलोक एव, तथात्रापि त्रसभूतानां- त्रससदृशानामेव प्राणातिपातनिवृत्तिः कृता स्यात्, न तु त्रसानामिति, अथ तादर्थ्य भूतशब्दोऽयम्, यथा शीतीभूतमुदकम्, शीतमित्यर्थः, एवं त्रसभूतास्त्रसत्वं प्राप्ताः, तथा च सति त्रसशब्देनैव गतार्थत्वात्पौनरुक्त्यं स्याद्, अथैवमपि स्थिते भूतशब्दोपादानं क्रियते, तथा चसत्यतिप्रसङ्गःस्यात्, तथाहि-क्षीरभूतविकृते: प्रत्याख्यानं करोम्येवं घृतभूतं मे ददस्वैवं घटभूतः पटभूत इत्येवमादावप्यायोज्यमिति // 72-74 // 795-797 / / तदेवं निरस्ते भूतशब्दे सत्युदक आह // 765 // सवायं उदए पेढालपुत्ते भगवं गोयम एवं वयासी-कयरे खलु ते आउसंतो गोयमा! तुब्भे वयह तसा पाणा तसा आउ अन्नहा ?, सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतो उदगा! जे तुब्भे वयह तसभूता पाणा तसा ते वयं वयामो तसा पाणा,
Loading... Page Navigation 1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328