Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 302
________________ सप्तममध्ययन श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 768 // यःकश्चित्पुरुषः समुपलभ्यते नगरमध्ये तस्याविज्ञप्तिकः शरीरनिग्रहः क्रियत इति, एवं च व्यवस्थिते सत्येकस्य वणिजः षट्। श्रुतस्कन्धः२ पुत्राः, ते च कौमुदीदिने क्रयविक्रयसंव्यवहारव्यग्रतया तावत्स्थिता यावत्सविताऽस्तमुपगतः। तदनन्तरमेव स्थगितानि च नालन्दीयम्, नगरद्वाराणि, तेषां च तत्कालात्ययान्न निर्गमनमभूत्, ततस्ते भयसंभ्रान्ता नगरमध्य एवात्मानं गोपयित्वा स्थिताः, ततो सूत्रम् 75 निष्क्रान्ते कौमुदीप्रचारे राज्ञाऽऽरक्षिकाः समाहूयादिष्टा:- यथा सम्यक् निरूपयत यूयं नात्र नगरे कौमुदीचारे कश्चित्पुरुषो (798) त्रसस्थावरयोव्यवस्थित? इति, तैरप्यारक्षिकैः सम्यग् निरूपयद्भिपलभ्य षडणिक्पुत्रवृत्तान्तो यथावस्थित एव राज्ञे निवेदितः, राज्ञा मागमः ऽप्याज्ञाभङ्गकुपितेन तेषां षण्णामपि वधः समादिष्टः, ततस्तत्पिता पुत्रवधसमाकर्णनगुरुशोकविह्वलोऽकाण्डापतितकुलक्षयोद्धान्तलोचनः किंकर्तव्यतामूढतया गणितविधेयाविधेयविशेषो राजानमुपस्थितोऽवादीच्च गद्गदया गिरा- यथा मा / कृथा देवास्माकं कुलक्षयम्, गृह्यतामिदमस्मदीयं कुलक्रमायातं स्वभुजोपार्जितं च प्रभूतं द्रविणजातम्, मुच्यतां मुच्यताममी षट् पुत्राः, क्रियतामयमस्माकमनुग्रह इति / एवमभिहितो राजा तद्वचनमनाकर्ण्य पुनरपि सविशेषं वधमादिदेश, असा वणिक्सर्ववधाशङ्की सर्वमोचनानभिप्रायं राजानमवेत्य पञ्चानां मोचनंयाचितवान्, तानप्यसौ राजान मोक्तुमना इत्येवमवगम्य / चतुर्मोचनकृते सादरं विज्ञप्तवान् तम्, तथापि राजा तमनादृत्य कुपितवदन एव स्थितः, ततस्त्रयाणां विमोचने कृतादरस्तत्पिताऽभूत्, तानप्यमुञ्चन्तं राजानं ज्ञात्वा गणितस्वापराधो द्वयोर्मोचनं प्रार्थितवान्, तत्राप्यवज्ञाप्रधानं नृपतिमवगम्य ततः पौरमहत्तमसमेतो राजानमेवं विज्ञप्तवान्, तद्यथा- देवाकाण्ड एवास्माकमयं कुलक्षयः समुपस्थितः, तस्माच्च भवन्त एवं त्राणायालम्, अतः क्रियतामेकमत्पुत्रविमोचनेन प्रसाद इति भणित्वा पादयोः सपौरमहत्तमः पतितो, राज्ञापि संजातानुकम्पेन (r) शारीरो निग्रहः (प्र०)। 0 पार्जितं प्रभूतं (मु०)। (c) विशेषमादिदेश (मु०)। 0 मभिगम्य (मु०)। 7 स्माकं कुल० (मु०)। // 768 //

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328