Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 777 // श्रुतस्कन्ध:२ सप्तममध्ययन नालन्दीयम्, सूत्रम् 78 (801) श्रावकप्रत्याख्यानस्य सविषयता विहृत्य कुतश्चित्कर्मोदयात्तथाविधपरिणतेरगारं- गृहमावसेयु:- गृहस्था भवेयुरित्येवंभूतः पर्यायः किं संभाव्यते? उत नेत्येवं पृष्टा निर्ग्रन्थाः प्रत्यूचुः- हन्त गृहवासं व्रजेयुः, तस्य च यतिवधगृहीतव्रतस्य तं गृहस्थं व्यापादयतः किं व्रतभङ्गो भवत्युत नेति ?, त आहुर्नेति, एवमेव श्रमणोपासकस्यापि त्रसेषु दण्डो निक्षिप्तो न स्थावरेष्विति, अतस्त्रसंस्थावरपर्यायापन्नं व्यापादयतस्तत्प्रत्याख्यान-2 भङ्गो न भवतीति ॥साम्प्रतं पुनरपि पर्यायापन्नस्यान्यथात्वं दर्शयितुं द्वितीयं दृष्टान्तं प्रत्याख्यातृविषयगतं दर्शयितुकाम आहभगवानेव गौतमस्वाम्याह, तद्यथा-गृहस्थाः यतीनामन्तिके समागत्य धर्मं श्रुत्वा सम्यक्त्वं प्रतिपद्य तदुत्तरकालं संजातवैराग्याः प्रव्रज्यां गहीत्वा पुनस्तथाविधकर्मोदयात्तामेव त्यजन्ति, ते च पूर्वं गृहस्थाः सर्वारम्भप्रवृत्तास्तदारतः प्रव्रजिताः सन्तो जीवोपमईपरित्यक्तदण्डाः पुनः प्रव्रज्यापरित्यागेसति नो परित्यक्तदण्डाः, तदेवं तेषांप्रत्याख्यातॄणांयथावस्थात्रयेऽप्यन्यथात्वं भवत्येवं त्रसस्थावरयोरपि द्रष्टव्यम्, एतच्च भगवं च णमुदाहु रित्यादेर्ग्रन्थस्य से एवमायाणियव्वं इत्येतत्पर्यवसानस्य तात्पर्यम्, अक्षरघटना तु सुगमेति स्वबुद्ध्या कार्या॥ तदेवं द्वितीयं दृष्टान्तं प्रदाधुना तृतीयं दृष्टान्तं परतीर्थिकोद्देशेन दर्शयितुमाहभगवं च णं उदाहु इत्यादि, यावत् से एवमायाणियव्वं ति उत्तानार्थम् / तात्पर्यार्थस्त्वयं- पूर्वं परिव्राजकादयः सन्तोऽसंभोग्याः साधूनां गृहीतश्रामण्याश्च साधूनां संभोग्याः संवृत्ताः पुनस्तदभावे त्वसंभोग्या इत्येवं पर्यायान्यथात्वं त्रसस्थावराणामप्यायोजनीयमिति // तदेवं दृष्टान्तत्रये प्रथम दृष्टान्ते हन्तव्यविषयभूतो यतिगृहस्थभावेन पर्यायभेदो दर्शितो द्वितीये तु दृष्टान्ते प्रत्याख्यातृविषयगतो गृहस्थयतिपुनर्गृहस्थभेदेन पर्यायभेदः प्रदर्शितः, तृतीये तु दृष्टान्ते परतीर्थिकसाधुभावोनिष्क्रमणभेदेन संभोगासंभोगद्वारेण पर्यायभेदो व्यवस्थापित इति // 78 // 801 // तदेवं दृष्टान्तप्राचुर्येण निर्दोषां देशविरतिं प्रसाध्य पुनरपि (c) गृहवासं वसेयुः (मु०)। (c) भवेदुत नेति (मु०)। 0 श्रामण्याः साधूनां (मु०)। 0 द्वितीये दृष्टान्ते (मु०)। // 777 //
Loading... Page Navigation 1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328