Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 770 // सूत्रम् 76 (799 सा अपि द्वीन्द्रियादयोऽपित्रसा इत्युच्यन्ते च त्रसाःत्रससंभारकृतेन कर्मणा भवन्ति, संभारो नामावश्यतया कर्मणो विपाकानु- श्रुतस्कन्धः२ भवेन वेदनम्, तच्चेह त्रसनाम प्रत्येकं नामकर्माभ्युपगतं भवति, त्रसत्वेन यत्परिबद्धमायुष्कं तद्यदोदयप्राप्तं भवति, तदा सप्तममध्ययन नालन्दीयम्, त्रससंभारकृतेन कर्मणा त्रसा इति व्यपदिश्यन्ते, न तदा कथञ्चित्स्थावरत्वव्यपदेशः, यदा च तदायुः परिक्षीणं भवति, णमिति वाक्यालङ्कारे, त्रसकायस्थितिकं च कर्म यदा परिक्षीणं भवति, तच्च जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतः सातिरेकसहस्रद्वयसागरोपम त्रसस्थावरयो परिमाणम्, तदा ततस्त्रसकायस्थितेरभावात्तदायुष्कं ते परित्यजन्ति, अपराण्यपि तत्सहचरितानि कर्माणिपरित्यज्य स्थावरत्वेन प्रत्यायान्ति, स्थावरा अपि स्थावरसंभारकृतेन कर्मणा तत्रोत्पद्यन्ते, स्थावरनाम च तत्राभ्युपगतं भवति, अपराण्यपि तत्सहचरितानिसर्वात्मनात्रसत्वं परित्यज्य स्थावरत्वेनोदयं यान्ति इति, एवं च व्यवस्थिते कथं स्थावरकायं व्यापादयतो गृहीतत्रसकायप्राणातिपातनिवृत्तेः श्रावकस्य व्रतभङ्ग इति?। किंचान्यत्-थावराउयं च ण मित्यादि, यदा तदपि स्थावरायुष्कं परिक्षीणं भवति तथास्थावरकायस्थितिश्च सा जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतोऽनन्तकालमसंख्येयाः पुद्गलपरावर्ता इति, ततस्तत्कायस्थितेर-8 भावात्तदायुष्कं परित्यज्य भूयः पुनरपि पारलौकिकत्वेन स्थावरकायस्थितेरभावात् त्रसत्वेन सामर्थ्यात्प्रत्यायान्ति, तेषां च त्रसानामन्वर्थिकान्यभिधानान्यभिधित्सुराह-ते पाणावी त्यादि, ते त्रससंभारकृतेन कर्मणा समुत्पन्नाः सन्तः सामान्यसंज्ञया / प्राणा अप्युच्यन्ते, तथा विशेषतः त्रस भयचलनयो'रिति धात्वर्थानुगमाद्भयचलनाभ्यामुपपेतास्त्रसा अप्युच्यन्ते, तथा महान् / कायो येषां ते महाकायाः योजनलक्षप्रमाणशरीरविकुर्वणात्, तथा चिरस्थितिका अप्युच्यन्ते, भवस्थित्यपेक्षया त्रयस्त्रिंशत्सागरोपमायुष्कसद्भावात्, ततस्त्रसपर्यायव्यवस्थितानामेव प्रत्याख्यानं तेन गृहीतम्, नतुस्थावरकायत्वेन व्यवस्थितानाम___© प्रत्येकनामेत्यादि (मु०)। (c) स्थावरादिनाम (मु०)। // 770
Loading... Page Navigation 1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328