Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 769 // श्रुतस्कन्धः 2 सप्तममध्ययन नालन्दीयम्, सूत्रम् 76 (799) त्रसस्थावरयोगमागमः मुक्तस्तदेको ज्येष्ठपुत्र इति। तदेवमस्य दृष्टान्तस्य दार्टान्तिकयोजनेयम्, तद्यथा-साधुनाऽभ्युपगतसम्यग्दर्शनमवगम्य श्रावकमखिलप्राणातिपातविरतिग्रहणं प्रति चोदितोऽप्यशक्तितया यदान सर्वप्राणातिपातविरतिं प्रतिपद्यते, यथाऽसौराजा वणिजाइत्यर्थं विज्ञापितोऽपि नषडपिपुत्रान् मुमुक्षति, नापि पञ्चचतुस्त्रिद्विसंख्यान् पुत्रानिति, तत एकविमोक्षणेनात्मानं कृतार्थमिव मन्यमानः स्थितोऽसौ, एवं साधोरपि श्रावकस्य यथाशक्ति व्रतं गृह्णतस्तदनुरूपमेवाणुव्रतदानमविरुद्धमिति, यथा च तस्य वणिजोन शेषपुत्रवधानुमतिलेशोऽप्यस्ति, एवं साधोरपि न शेषप्राणिवधानुमतिप्रत्ययजनितः कर्मबन्धो भवति, किंतर्हि?, यदेव व्रतं गृहीत्वा यानेव सत्त्वान् बादरान् संकल्पजप्राणिवधनिवृत्त्या रक्षति तन्निमित्तः कुशलानुबन्ध एवेत्येतत्सूत्रेणैव दर्शयितुमाह- तसे हीत्यादि, त्रस्यन्तीति त्रसाः- द्वीन्द्रियादयस्तेभ्यः सकाशानिधाय निहाय वा परित्यज्येतियावत् कं?दण्डयतीति दण्डस्तंपरित्यज्य, त्रसेषु प्राणातिपातविरतिंगृहीत्वेत्यर्थः, तदपि च त्रसप्राणातिपातविरमणव्रतं तेषां देशविरताना कुशलहेतुत्वात्कुशलमेव भवति // 75 // 798 // यच्च प्रागभिहितम्, तद्यथा-तमेव त्रसंस्थावरपर्यायापन्नं नागरकमिव बहिःस्थं व्यापादयतोऽवश्यंभावी व्रतभङ्ग इत्येतत् परिहतुकाम आह तसाविवुचंति तसा तससंभारकडेणं कम्मुणाणामंचणं अब्भुवगयं भवइ, तसाउयंचणंपलिक्खीणंभवइ, तसकायट्ठिइया ते तओ आउयं विप्पजहंति, ते तओ आउयं विप्पजहित्ता थावरत्ताए पच्चायति / थावरावि वुच्चंति थावरा थावरसंभारकडेणं कम्मुणा णामं च णं अब्भुवगयं भवइ, थावराउयं च णं पलिक्खीणं भवइ, थावरकायट्ठिइया ते तओ आउयं विप्पजहंति तओ आउयं विप्पजहित्ता भुजोपरलोइयत्ताए पच्चायंति, ते पाणाविवुचंति, तेतसावि वुचंति ,तेमहाकाया तेचिरट्ठिइया॥सूत्रम् 76 // ( // 799 // ) 0 विलपितोऽपि (प्र०)। ॐ प्राणातिपातनिवृत्या (प्र०)। 0 तसेहि' मित्यादि (मु०)। // 769 //
Loading... Page Navigation 1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328