Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 298
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 764 // ददतां मृषावादो भवति, गृह्णतांचावश्यंभावी व्रतविलोप इति, तदेवमयमपि नः अस्मदीयोपदेशाभ्युपगमो भूतत्वविशेषण- श्रुतस्कन्धः२ विशिष्टः पक्षः किं भवतांनो नैव नैयायिको न्यायोपपन्नो भवति?, इदमुक्तं भवति- भूतत्वविशेषणेन हि त्रसान् स्थावरोत्पन्नान् / सप्तममध्ययन नालन्दीयम्, हिंसतोऽपि न प्रतिज्ञातिचार इति, अपि चैतदायुष्मन् गौतम! तुभ्यमपि रोचते- एवमेतद्यथा मया व्याख्यातम् / एवमभिहितो सूत्रम् 72-74 गौतमः सदाचंसवादंवा तमुदकं पेढालपुत्रमेवं-वक्ष्यमाणमवादीत्, तद्यथा-नोखल्वायुष्मन्नुदकास्मभ्यमेतदेवं यद्यथा त्वयोच्यते (795-797) त्रसस्थावरयोतद्रोचत इति, इदमुक्तं भवति- यदिदं त्रसकायविरतौ भूतत्वविशेषणं क्रियते तन्निरर्थकतयाऽस्मभ्यं न रोचत इति / तदेवं र्गमागमः व्यवस्थिते भो उदक! ये ते श्रमणा वा ब्राह्मणा वा एवं भूतशब्दविशेषणत्वेन प्रत्याख्यानमाचक्षते, परैः पृष्टास्तथैव भाषन्ते प्रत्याख्यानम्, स्वतः कुर्वन्तः कारयन्तश्चैवमिति-सविशेषणं प्रत्याख्यानं भाषन्ते, तथैवमेव सविशेषणप्रत्याख्यानप्ररूपणावसरे सामान्येन प्ररूपयन्ति, एवं च प्ररूपयन्तो न खलु ते श्रमणा वा निर्ग्रन्था वा यथार्था भाषां भाषन्ते, अपित्वनुतापयतीत्यनुतापिका ताम्, तथाभूतां च खलु ते भाषां भाषन्ते, अन्यथाभाषणे ह्यपरेण जानता बोधितस्य सतोऽनुतापो भवतीत्यतो हिसविशेषणप्रत्याख्यानवादिनो यथावस्थितं प्रत्याख्यानंददतःसाधून गृह्णतश्च श्रमणोपासकानभ्याख्यान्ति- अभूतदोषोद्धावनतोऽभ्याख्यानं ददति / किंचान्यत्- जेहिंवि इत्यादि, येष्वप्यन्येषु प्राणिषु भूतेषु जीवेषु सत्त्वेषु विषयभूतेषु विशिष्य ये संयम कुर्वन्ति संयमयन्ति, तद्यथा- ब्राह्मणो न मया हन्तव्य इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा व्यवस्थितो भवति तद्वधे ब्राह्मणवध आपद्यते, भूतशब्दाविशेषणात्, तदेवं तान्यपि विशेषव्रतानि सूकरो मया न हन्तव्य इत्येवमादीनि ते भूतशब्दविशेषणवादिनोऽभ्याख्यान्ति- दूषयन्ति / किमित्यत आह-कस्सण मित्यादिकस्माद्धेतोस्तदसद्भुतं दूषणं भवतीति?, यस्मात्सांसारिकाः // 764

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328