SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 758 // राजगृहनालन्दयो त्वात्, शेषस्तु सर्वोऽपि लौकिकतीर्थिकपरिकल्पितोऽनर्थः, तदनेन विशेषणकदम्बकेन सम्यक्त्वगुणाविष्करणं कृतं भवति / श्रुतस्कन्धः२ साम्प्रतं तस्यैव सम्यग्दर्शनज्ञानाभ्यां कृतो यो गुणस्तदाविष्करणायाह-उस्सिय इत्यादि, उच्छ्रतं- प्रख्यातं स्फटिकवनिर्मलं. सप्तममध्ययन नालन्दीयम्, यशो यस्यासावुच्छ्रितस्फटिकः, प्रख्यातनिर्मलयशा इत्यर्थः, तथाऽप्रावृतं- अस्थगितं द्वारं- गृहमुखं यस्य सोऽप्रावृतद्वारः, सूत्रम् 69-71 इदमुक्तं भवति- गृहं प्रविश्य परतीर्थिकोऽपि यद्यत्कथयति तदसौ कथयतु न तस्य परिजनोऽप्यन्यथा भावयितुं-सम्यक्त्वा- (792-794) च्च्यावयितुंशक्यत इतियावत्, तथा राज्ञांवल्लभान्तःपुरद्वारेषु प्रवेष्टुं शीलं यस्य स तथा, इदमुक्तं भवति-प्रतिषिद्धान्यजनप्रवेशान्यपि यानिस्थानानि भाण्डागारान्तः पुरादीनि तेष्वप्यसौ प्रख्यातश्रावकाख्यगुणत्वेनास्खलितप्रवेशः, तथा चतुर्दश्यष्टम्यादिषु वर्जनम् तिथिषूपदिष्टासु- महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथि-8 ष्वित्यर्थः, एवंभूतेषु धर्मदिवसेषु सुष्ठ- अतिशयेन प्रतिपूर्णो यः पौषधो-व्रताभिग्रहविशेषस्तं प्रतिपूर्णं- आहारशरीरसत्कार-2 ब्रह्मचर्याव्यापाररूपं पौषधमनुपालयन् संपूर्ण श्रावकधर्ममनुचरति, तदनेन विशेषणकलापेन विशिष्टं देशचारित्रमावेदितं भवति / साम्प्रतं तस्यैवोत्तरगुणख्यापनेन दानधर्ममधिकृत्याह-समणे निग्गंथे इत्यादि, सुगमंयावत्पडिलाभेमाणे त्ति, साम्प्रतं तस्यैव शीलतपोभावनात्मकं धर्ममावेदयन्नाह- बहूहि मित्यादि, बहुभिः शीलव्रतगुणविरमणप्रत्याख्यानपौषधोपवासैस्तथा / यथापरिगृहीतैश्च तपःकर्मभिरात्मानं भावयन्, एवं चानन्तरोक्तया नीत्या विहरति-धर्ममाचरंस्तिष्ठति, चः समुच्चये, णमिति वाक्यालङ्कारे॥६९॥ 792 // // 758 // तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरियाए उत्तरपुरच्छिमे दिसिभाए एत्थ णं सेसदविया नाम उदगसाला होत्था, अणेग७ यद्यः कथ० (प्र०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy