________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 757 // श्रुतस्कन्धः२ सप्तममध्ययनं नालन्दीयम्, सूत्रम् 69 (792) राजगृहनालन्दयोवर्जनम् निव्वितिगिच्छे लद्धढे गहियढे पुच्छियढे विणिच्छियढे अभिगहियढे अट्ठिमिंजापेमाणुरागरत्ते, अयमाउसो! निग्गंथे पावयणे अयं अढे अयं परमट्टे सेसे अणढे, उस्सियफलिहे अप्पावयदुवारे चियत्तंतेउरप्पवेसे चाउद्दसट्ठमुद्दिट्ठपुण्णमासिणीसुपडिपुन्नं पोसहं सम्म अणुपालेमाणे समणे निग्गंथे तहाविहेणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे बहूहिं सीलव्वयगुणविरमणपच्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणे एवं चणं विहरइ॥सूत्रम् 69 / / ( // 792 // ) णमिति वाक्यालङ्कारे, स लेपाख्यो गृहपतिः श्रमणान्- साधूनुपास्ते- प्रत्यहं सेवत इत श्रमणोपासकः, तदनेन विशेषणेन तस्य जीवादिपदार्थाविर्भावकश्रुतज्ञानसंपदावेदिता भवति, एतदेव दर्शयति अभिगतजीवाजीवेत्यादिना ग्रन्थेन यावदसहायोऽपि देवासुरादिभिर्देवगणैरनतिक्रमणीयः- अनतिलवनीयो धर्मादप्रच्यावनीय इतियावत्, तदियता विशेषणकलापेन तस्य सम्यग्ज्ञानित्वमावेदितं भवति / साम्प्रतं तस्य विशिष्टसम्यग्दर्शनित्वं प्रतिपादयितुमाह-निग्गंथे इत्यादि, निर्ग्रन्थे आर्हते प्रवचने निर्गता शङ्का देशसर्वरूपा यस्य स निःशङ्कः, तदेव सत्यं निःशङ्कं यज्जिनः प्रवेदित' मित्येव कृताध्यवसायः, तथा निर्गता कासा- अन्यान्यदर्शनग्रहणरूपा यस्यासौ निराकासः, तथा निर्गता विचिकित्सा- चित्तविप्लुतिर्विद्वज्जुगुप्सा वा यस्यासौ निर्विचिकित्सो, यत एवमतोलब्धः- उपलब्धोऽर्थः- परमार्थरूपोयेन सलब्धार्थो ज्ञाततत्त्व इत्यर्थः, तथा गृहीतः-स्वीकृतोऽर्थो मोक्षमार्गरूपो येन स गृहीतार्थः, तथा-विशेषतः पृष्टोऽर्थो येन स पृष्टार्थो, यत एवमतो विनिश्चितार्थः, ततोऽभिगत:- पृष्टनिर्वचनतः प्रतीतोऽर्थो येन सोऽभिगतार्थः, तथाऽस्थिमिञ्जा-अस्थिमध्यं यावत्स धर्मे प्रेमानुरागेण रक्तः अत्यन्तंसम्यक्त्ववासितान्तश्चेता इतियावत्, एतदेवाविर्भावयन्नाह-अयमाउसो इत्यादि, केनचिद्धर्मसर्वस्वं पृष्टः सन्नेतदाचष्टे, तद्यथा-भो आयुष्मन्निदं नैर्ग्रन्थं मौनीन्द्रप्रवचनमर्थः-सद्धृतार्थः तथाप्ररूपणतया, तथेदमेवाह-अयमेव परमार्थः, कषतापच्छेदैरस्यैवशुद्धत्वेन निर्घटित // 757 //