________________ नालन्दीयम, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 756 // नालन्दयो वर्जनम यावि होत्था॥ श्रुतस्कन्धः२ सप्तममध्ययन अस्य चानन्तरपरम्परसूत्रैः सह सम्बन्धो वाच्यः, तत्रानन्तराध्ययनपर्यन्ते सूत्रमिदं- आदानवान् धर्ममुदाहरेत्, धर्मश्च साधुश्रावकभेदेन द्विधा, तत्र पूर्वोक्तेनाङ्गद्वयेन प्रायः साधुगतो विधिरभिहितोऽनेन तु श्रावकगतो विधिरुच्यते / परम्परसूत्रसम्बन्ध-8 सूत्रम् 68-69 स्त्वयं-बुध्येते त्येतदादि सूत्रम्, किंतत्र बुध्येत् ?, यदेतद्वक्ष्यत इति।सूत्रार्थस्त्वयं-सप्तम्यर्थे तृतीया, यस्मिन्काले यस्मिंश्चावसरे (791-792) राजगृहराजगृहं नगरं यथोक्तविशेषणविशिष्टमासीत्, तस्मिन् काले तस्मिंश्च समये इदमभिधीयते / राजगृहमेव विशिनष्टि-प्रासादाः संजाता यस्मिंस्तत्प्रासादितमाभोगमद्वा, अत एव दर्शनीयं- दर्शनयोग्यं दृष्टिसुखहेतुत्वात्, तथाऽऽभिमुख्येन रूपं यस्य तदभिरूपम्, तथाऽप्रतिरूपमनन्यसदृशम्, प्रतिरूपं वा-प्रतिबिम्बं वा स्वर्गनिवेशस्य, तदेवंभूतं राजगृहं नाम नगरं होत्थ त्ति आसीत्, यद्यपि तत्कालत्रयेऽपि सत्तां बिभर्ति तथाप्यतीताख्यानकसमाश्रयणादासीदित्युक्तम् / तस्य च राजगृहस्य बहिरुत्तरपूर्वस्यां दिशि नालन्दा नाम बाहिरिका आसीत्, सा चानेकभवनशतसन्निविष्टा- अनेकभवनशतसंकीर्णेत्यर्थः। तस्यां च लेपो नाम गृहपतिः कुटुम्बिक आसीत्, स चाढ्यो दीप्तः- तेजस्वी वित्तः सर्वजनविख्यातो विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णो बहुधनबहुजातरूपरजतः आयोगाः- अर्थोपाया यानपात्रोष्ट्रमण्डलिकादयः, तथा प्रयोजनं प्रयोगः- प्रायोगिकत्वं तैरायोगप्रयोगैः / संप्रयुक्तः- समन्वितः, तथेतश्चेतश्च विक्षिप्तप्रचुरभक्तपानो बहुदास्यादिपरिवृतो बहुजनस्यापरिभूतश्चासीत्। तदियता विशेषणकदम्बकेनैहिकगुणाविष्करणेन द्रव्यसंपदभिहिता // 68 // 791 / / अधुनाऽऽमुष्मिकगुणाविर्भावेन भावसंपदभिधीयते // 756 // से णं लेवे नामंगाहावई समणोवासए यावि होत्था, अभिगयजीवाजीवे जाव विहरइ, निग्गंथे पावयणे निस्संकिए निक्कंखिए 0 दीयमा० प्र० आभोगव० प्र० वरुणच्छत्रयत्नयोरिति यत्नबद्धा मूलपाठे तु परिपूर्णतावत् /