SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 755 // श्रुतस्कन्धः 2 सप्तममध्ययन नालन्दीयम्, सूत्रम् 68 (791) राजगृहनालन्दयोवर्जनम् तद्यथा - अलंकृतं देवदत्तेन स्वकुलं जगच्च नाभिसूनुने'त्यादि / तृतीयस्त्वलंशब्दार्थः प्रतिषेधे ज्ञातव्यो भवति, तद्यथा- अलं मे गृहवासेन, तथा 'अलं पापेन कर्मणा' उक्तं च- अलं कुतीर्थैरिह पर्युपासितैरलं वितर्काकुलकाहलैर्मतैः। अलं च मे कामगुणैनिषेवितैर्भयंकरा ये हि परत्र चेह च॥१॥ तदिह प्रतिषेधवाचिनाऽलंशब्देनाधिकार इत्येतद्दर्शयितुमाह- सत्यप्यलंशब्दस्यार्थत्रये नकारस्य सान्निध्यात्प्रतिषेधविधाय्येवेह गृह्यते, ततश्च निरुक्तविधानादयमर्थ:- नालंददातीतिनालन्दा बाहिरिकायाः स्त्रियोद्देशकत्वेन वाचकत्वेन च नालन्दशब्दस्य स्त्रीलिङ्गता, सा च सदैहिकामुष्मिकसुखहेतुत्वेन सुखप्रदा राजगृहनगरबाहिरिका धनकनकसमृद्धत्वेनसत्साध्वाश्रयत्वेन च सर्वकामप्रदेति / साम्प्रतं प्रत्ययार्थ दर्शयितुकाम आह-नालन्दायाः समीपे मनोरथाख्ये Bउद्याने इन्द्रभूतिना गणधरेणोदकाख्यनिर्ग्रन्थपृष्टेन तुशब्दस्यैवकारार्थत्वात्तस्यैव भाषितमिदमध्ययनम् / नालन्दायां भवं नालन्दीयं नालन्दासमीपोद्यानकथनेन वा निर्वृत्तं नालन्दीयम् / यथा चेदमध्ययनं नालन्दायां संवृत्तं तथोत्तरत्र पासावचिजे इत्यादिकया सूत्रस्पर्शिकगाथयाऽऽविष्करिष्यते॥२०१-२०४॥, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं तेणं कालेणं तेणं समएणंरायगिहे नामं नयरे होत्था, रिद्धिस्थिमितसमिद्धे वण्णओ जाव पडिरूवे, तस्सणं रायगिहस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए, एत्थ णं नालंदानाम बाहिरिया होत्था, अणेगभवणसयसन्निविट्ठा जाव पडिरूवा॥सूत्रम् 68 // ( // 791 // ) तत्थ णं नालंदाए बाहिरियाए लेवे नाम गाहावई होत्था, अड्डे दित्ते वित्ते विच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायरूवरजते आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए 0 अलं कृतं देव! देवेन स्वकुलं (मु०)। // 755 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy