________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 754 // तत्र अमानोनाः प्रतिषेधवाचकाः, तद्यथा- अगौः अघट इत्याद्यकारः प्रायो द्रव्यस्यैव प्रतिषेधवाचीत्यलंदानेन सहास्य श्रुतस्कन्धः२ प्रयोगाभावः,माकारस्त्वनागतक्रियाया निषेधं विधत्ते, तद्यथा-मा कार्षीस्त्वमकार्य मा मंस्थाः संस्था नोयुष्मदधिष्ठितदिगेव सप्तममध्ययनं वीतायेत्यादि, नोकारस्तु देशनिषेधे सर्वनिषेधे च वर्त्तते, तद्यथा- नो घटो घटैकदेशो घटैकदेशनिषेधेन, तथा हास्यादयो नालन्दीयम्, नियुक्तिः नोकषायाः कषायमोहनीयैकदेशभूताः, नकारस्तु समस्तद्रव्यक्रियाप्रतिषेधाभिधायी, तद्यथा-न द्रव्यं न कर्म न गुणोऽभावः, 201-204 तथा नाकार्षं न करोमि न करिष्यामीत्यादि , तथाऽन्यैरप्युक्तं- न याति न च तत्रासीदस्ति पश्चान्नवांशवत् / जहाति पूर्वं नाधारमहो अलंनिक्षेपादिः व्यसनसंततिः॥१॥ किंचान्यत्-गतं न गम्यते तावदगतं नैव गम्यते / गतागतविनिमुक्तिं, गम्यमानं तु गम्यते // इत्यादि। तदेवमत्र / नकारः प्रतिषेधविधायकोऽप्युपात्तः, अलंशब्दोऽपि यद्यपि 'अलं पर्याप्तिवारणभूषणेष्विति' त्रिष्वर्थेषु पठ्यते, तथाऽपीह प्रतिषेधवाचकेन नञा साहचर्यात्प्रतिषेधार्थ एव गृह्यते, तत्र चालंशब्दे नामस्थापनाद्रव्यभावभेदाच्चतुर्विधो निक्षेपो भवति, तत्र नामालं यस्य चेतनस्य अचेतनस्य वाऽलमिति नाम क्रियते, स्थापनालं तु यत्र क्वचिच्चित्रपुस्तकादौ पापनिषेधं कुर्वन्साधुः स्थाप्यते, द्रव्यनिषेधस्तु नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्य चौराद्याहृतस्यैहिकापायभीरुणा यो निषेधः क्रियते स द्रव्यनिषेधः, एवं द्रव्येण द्रव्याद् द्रव्ये वा निषेधौ द्रव्यनिषेधः, भावनिषेधं तु स्वत एव नियुक्तिकारोऽलंशब्दस्य संभविनमर्थं / दर्शयन्बिभणिषुराह पर्याप्तिभावः- सामर्थ्यं तत्रालंशब्दो वर्तते, अलं मल्लो मल्लाय, समर्थ इत्यर्थः, लोकोत्तरेऽपि नालं ते तव ताणाए वा सरणाए वा / अन्यैरप्युक्तं- द्रव्यास्तिकरथारूढः, पर्यायोद्यतकार्मुकः / युक्तिसन्नाहवान्वादी, कुवादिभ्यो भवत्यलम्॥१॥ // 754 // अयं प्रथमोऽलंशब्दार्थो भवति, खलुशब्दो वाक्यालङ्कारे, द्वितीयस्त्वर्थोऽलङ्कारे- अलङ्कारविषये भवेत्, संभावनायां लिङ् 6ष्वपीति (मु०)। ॐ द्रव्ये वा निषेधः, भाव (मु०)।