Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 741 // श्रुतस्कन्धः 2 षष्ठमध्ययन आईक्रीयम्, सूत्रम् 37-42 (772-777) आर्द्र कस्योत्तरः मांसादनस्यादरात्। सद्दीर्घायुरदूषितं गदरुजा संभाव्य यास्यन्ति ते, मर्येषुद्भटभोगधर्ममतिषु स्वर्गापवर्गेषु च // 2 // इत्यादि॥३९॥ ७७४॥न केवलं मांसादनमेव परिहार्यम्, अन्यदपि मुमुक्षूणां परिहर्तव्यमिति दर्शयितुमाह-सव्वेसि मित्यादि सर्वेषां जीवानां प्राणिनां प्राणार्थिनाम्, न केवलं पञ्चेन्द्रियाणामेवेति सर्वग्रहणम्, दयार्थतया दयानिमित्तं सावद्यमारम्भं महानयं दोष इत्येवं मत्वा तं परिवर्जयन्तः साधवस्तच्छडिनो- दोषशङ्किनः ऋषयो महामुनयो ज्ञातपुत्रीयाः श्रीमन्महावीरवर्द्धमानशिष्याः उद्दिष्ट दानाय परिकल्पितं यद्भक्तपानादिकं तत्परिवर्जयन्ति // 40 // 775 // किञ्च- भूतानां जीवानां उपमर्दशङ्कया सावद्यमनुष्ठान जुगुप्समानाः परिहरन्तः, तथा सर्वेषां प्राणिनांदण्डयतीति दण्डः- समुपतापस्तं निधाय परित्यज्य सम्यगुत्थानेनोत्थिताः सत्साधवोयतयस्ततो न भुञ्जते तथाप्रकारमाहारमशुद्धजातीयं एषोऽनुधर्मः इह अस्मिन् प्रवचने संयतानां यतीनाम्, तीर्थकराचरणादनुपश्चाच्चर्यत इत्यनुना विशेष्यते, यदिवाऽणुरिति स्तोकेनाप्यतिचारेण बाध्यते शिरीषपुष्पमिव सुकुमार इत्यतोऽणुना विशेष्यत इति // 41 // 776 // किंचान्यत्- णिगंथधम्म मित्यादि, नास्मिन्मौनीन्द्रधर्मे बाह्याभ्यन्तररूपो ग्रन्थोऽस्यास्तीति निर्ग्रन्थः स चासौ धर्मश्च निर्ग्रन्थधर्मः स च श्रुतचारित्राख्यः क्षान्त्यादिको वा सर्वज्ञोक्तस्तस्मिन्नेवंभूते धर्मे व्यवस्थितः इमं पूर्वोक्तं समाधिमनुप्राप्तः अस्मिंश्वाशुद्धाहारपरिहाररूपे समाधौ सुष्ठु- अतिशयेन स्थित्वा अनिहः अमायोऽथवा निहन्यत इति निहो न निहोऽनिहः-परीषहैरपीडितो यदिवा 'स्निह बन्धने' अस्निह इति स्नेहरूपबन्धनरहितः संयमानुष्ठानं चरेत्, तता बुद्धोऽवगततत्त्वो मुनिः कालत्रयवेदी शीलेन क्रोधाद्युपशमरूपेण गुणैश्च मूलोत्तरगुणभूतैरुपपेतो- युक्त इत्येवं- गुणकलितोऽत्यर्थतां(तः) 18 सर्वगुणातिशायिनीं सर्वद्वन्द्वोपरमरूपांसंतोषात्मिकां श्लाघांप्रशंसांलोके लोकोत्तरेवाऽऽप्नोति, तथा चोक्तं- राजानं तृणतुल्यमेव 0 जीवानां प्राणार्थिनां (मु०)। // 741 //
Loading... Page Navigation 1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328