Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् | श्रुतस्कन्धः२ | // 746 // सवर्णनंच एवंण मिजंति ण संसरंती, ण माहणा खत्तिय वेस पेसा / कीडा य पक्खी यसरीसिवा य, नरा यसव्वे तह देवलोगा।सूत्रम् 48 // श्रुतस्कन्धः 2 ( // 783 // ) षष्ठमध्ययनं आर्द्रक्रीयम्, पुरिशयनात्पुरुषो-जीवस्तं यथा भवन्तोऽभ्युपगतवन्तस्तथा वयमपि, तमेव विशिनष्टि- अमूर्त्तत्वादव्यक्तं रूपं-स्वरूपम-8 सूत्रम् 47-48 स्यासावव्यक्तरूपस्तम्, करचरणशिरोग्रीवाद्यवयवतया स्वतोऽनवस्थानात्, तथा महान्तं लोकव्यापिनं तथा सनातनं शाश्वतं (782-783) द्रव्यार्थतया नित्यम्, नानाविधगतिसंभवेऽपि चैतन्यलक्षणात्मस्वरूपस्याप्रच्युतेः, तथा अक्षयं केनचित्प्रदेशानां खण्डशः एकदण्डिनः हस्तितापकर्तुमशक्यत्वात्, तथा अव्ययं अनन्तेनापिकालेनैकस्यापि तत्प्रदेशस्य व्ययाभावात्, तथा सर्वेष्वपि भूतेषुकायाकारपरिणतेषु प्रतिशरीरं सर्वतः सामस्त्यान्निरंशत्वादसावात्मा संभवति, किमिव ?- चन्द्र इव शशीव ताराभिः अश्विन्यादिभिर्नक्षत्रैः यथा / समस्तरूपः संपूर्णः सम्बन्धमुपयाति एवमसावपि आत्मा प्रत्येकंशरीरैः सह संपूर्ण:सम्बन्धमुपयाति। तदेवमेकदण्डिभिर्दर्शनसाम्यापादनेन सामवादपूर्वकं स्वदर्शनारोपणार्थमाईककुमारोऽभिहितो, यत्रैतानि संपूर्णानि- निरुपचरितानि पूर्वोक्तानि विशेषणानि धर्मसंसारयोर्विद्यन्ते स एव पक्षः सश्रुतिकेन समाश्रयितव्यो भवति / एतानि चास्मदीय एव दर्शने यथोक्तानि सन्ति, नाऽऽर्हते, अतोभवतोऽप्यस्मद्दर्शनमेवाभ्युपगन्तव्यमिति // 47 // 782 // तदेवमभिहितः सन्नाककुमारस्तदुत्तरदानायाह- ‘एव'मित्यादि, यदिवा प्राक्तनः श्लोकः 'अव्वत्तरूव' मित्यादिको वेदान्तवाद्यात्माद्वैतमतेन व्याख्यातव्यः, तथाहिते एकमेवाव्यक्तं पुरुषं- आत्मानं महान्तमाकाशमिव सर्वव्यापिनं सनातनं अनन्तमक्षयमव्ययं सर्वेष्वपि भूतेषु-चेतनाचेतनेषु सर्वतः- सर्वात्मतयोऽसौ स्थित इत्येवमभ्युपगतवन्तो, यथा सर्वास्वपि तारास्वेक एव चन्द्रः सम्बन्धमुपयात्येवमसावपीति / (c) अक्षतं (प्र०)। (r) क इव (मु०)। // 746 //
Loading... Page Navigation 1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328