________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् | श्रुतस्कन्धः२ | // 746 // सवर्णनंच एवंण मिजंति ण संसरंती, ण माहणा खत्तिय वेस पेसा / कीडा य पक्खी यसरीसिवा य, नरा यसव्वे तह देवलोगा।सूत्रम् 48 // श्रुतस्कन्धः 2 ( // 783 // ) षष्ठमध्ययनं आर्द्रक्रीयम्, पुरिशयनात्पुरुषो-जीवस्तं यथा भवन्तोऽभ्युपगतवन्तस्तथा वयमपि, तमेव विशिनष्टि- अमूर्त्तत्वादव्यक्तं रूपं-स्वरूपम-8 सूत्रम् 47-48 स्यासावव्यक्तरूपस्तम्, करचरणशिरोग्रीवाद्यवयवतया स्वतोऽनवस्थानात्, तथा महान्तं लोकव्यापिनं तथा सनातनं शाश्वतं (782-783) द्रव्यार्थतया नित्यम्, नानाविधगतिसंभवेऽपि चैतन्यलक्षणात्मस्वरूपस्याप्रच्युतेः, तथा अक्षयं केनचित्प्रदेशानां खण्डशः एकदण्डिनः हस्तितापकर्तुमशक्यत्वात्, तथा अव्ययं अनन्तेनापिकालेनैकस्यापि तत्प्रदेशस्य व्ययाभावात्, तथा सर्वेष्वपि भूतेषुकायाकारपरिणतेषु प्रतिशरीरं सर्वतः सामस्त्यान्निरंशत्वादसावात्मा संभवति, किमिव ?- चन्द्र इव शशीव ताराभिः अश्विन्यादिभिर्नक्षत्रैः यथा / समस्तरूपः संपूर्णः सम्बन्धमुपयाति एवमसावपि आत्मा प्रत्येकंशरीरैः सह संपूर्ण:सम्बन्धमुपयाति। तदेवमेकदण्डिभिर्दर्शनसाम्यापादनेन सामवादपूर्वकं स्वदर्शनारोपणार्थमाईककुमारोऽभिहितो, यत्रैतानि संपूर्णानि- निरुपचरितानि पूर्वोक्तानि विशेषणानि धर्मसंसारयोर्विद्यन्ते स एव पक्षः सश्रुतिकेन समाश्रयितव्यो भवति / एतानि चास्मदीय एव दर्शने यथोक्तानि सन्ति, नाऽऽर्हते, अतोभवतोऽप्यस्मद्दर्शनमेवाभ्युपगन्तव्यमिति // 47 // 782 // तदेवमभिहितः सन्नाककुमारस्तदुत्तरदानायाह- ‘एव'मित्यादि, यदिवा प्राक्तनः श्लोकः 'अव्वत्तरूव' मित्यादिको वेदान्तवाद्यात्माद्वैतमतेन व्याख्यातव्यः, तथाहिते एकमेवाव्यक्तं पुरुषं- आत्मानं महान्तमाकाशमिव सर्वव्यापिनं सनातनं अनन्तमक्षयमव्ययं सर्वेष्वपि भूतेषु-चेतनाचेतनेषु सर्वतः- सर्वात्मतयोऽसौ स्थित इत्येवमभ्युपगतवन्तो, यथा सर्वास्वपि तारास्वेक एव चन्द्रः सम्बन्धमुपयात्येवमसावपीति / (c) अक्षतं (प्र०)। (r) क इव (मु०)। // 746 //