SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ नियुक्ति श्रीसूत्रकृताङ्ग श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 747 // अस्य चोत्तरदानायाह- एव मित्यादि, एव मिति यथा भवतां दर्शने एकान्तनैव नित्योऽविकार्यात्माऽभ्युपगम्यते इत्येवं पदार्थाः श्रुतस्कन्धः२ सर्वेऽपि नित्याः, तथा च सति कुतो बन्धमोक्षसद्भाव:?, बन्धाभावाच्च न नारकतिर्यङ्नरामरलक्षणश्चतुर्गतिकः संसारः, षष्ठमध्ययनं आईक्रीयम्, मोक्षाभावाच्च निरर्थकं व्रतग्रहणं भवतांपञ्चरात्रोपदिष्टयमनियमप्रतिपत्तिश्चेति, एवं च यदुच्यते भवता- यथा 'आवयोस्तुल्यो धर्म'इति, तदयुक्तमुक्तम्, तथा संसारान्तर्गतानांच पदार्थानां न साम्यम्, तथाहि- भवतां द्रव्यैकत्ववादिनांसर्वस्य प्रधानाद- (782-783) एकदण्डिनः भिन्नत्वात्कारणमेवास्ति, कार्यं च कारणाभिन्नत्वात्सर्वात्मना तत्र विद्यते, अस्माकं च द्रव्यपर्यायोभयवादिनां कारणे कार्य हस्तितापद्रव्यात्मतया विद्यते न पर्यायात्मकतया, अपिच- अस्माकमुत्पादव्ययध्रौव्ययुक्तं सदुच्यते, भवतां तु ध्रौव्ययुक्तमेव सदिति, सवर्णनंच यावप्याविर्भावतिरोभावौ भवतोच्यते तावपिनोत्पादविनाशावन्तरेण भवितुमुत्सहेते, तदेवमैहिकामुष्मिकचिन्तायामावयोर्न कथञ्चित्साम्यम् / किंच- सर्वव्यापित्वे सत्यात्मनामविकारित्वे चात्माद्वैते चाभ्युपगम्यमाने नारकतिर्यनरामरभेदेन / बालकुमारसुभगदुर्भगाढ्यदरिद्रादिभेदेन वा न मीयेरन्- न परिच्छिोरन्, नापि स्वकर्मचोदिता नानागतिषु संसरन्ति, सर्वव्यापित्वादेकत्वाद्वा, तथा न ब्राह्मणा न क्षत्रिया न वैश्या न प्रेष्या- न शूद्रा नापि कीटपक्षिसरीसृपाश्च भवेयुः, तथा नराश्च सर्वेऽपि देवलोकाश्चेत्येवं नानागतिभेदेन न भिद्येरन्, अतोनसर्वव्यापी आत्मा, नाप्यात्माद्वैतवादोज्यायान्, यतः प्रत्येकं सुखदुःखानुभवः समुपलभ्यते, तथा शरीरत्वक्पर्यन्तमात्र एवात्मा, तत्रैव तद्गुणविज्ञानोपलब्धेरिति स्थितम्, तदेवं व्यवस्थिते युष्मदागमो यथार्थाभिधायीन भवति, असर्वज्ञप्रणीतत्वाद्, असर्वज्ञप्रणीतत्वं चैकान्तपक्षसमाश्रयणादिति // 48 // 783 // एवमसर्वज्ञस्य मार्गोद्भावने दोषमाविर्भावयन्नाह (r) युक्तमेव (मु०)। // 747 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy