________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 748 // श्रुतस्कन्धः२ षष्ठमध्ययन आर्द्रक्रीयम्, सूत्रम् 49-51 (784-785) एकदण्डिन: हस्तितापसवर्णनंच लोयं अयाणित्तिह केवलेणं, कहंति जे धम्ममजाणमाणा।णासंति अप्पाण परं च णट्ठा, संसार घोरंमि अणोरपारे / / सूत्रम् 49 // ( // 784 // ) लोयं विजाणंतिह, केवलेणं, पुन्नेण नाणेण समाहिजुत्ता। धम्मंसमत्तं च कहंति जे उ, तारंति अप्पाण परंच तिन्ना // सूत्रम् 50 // ( // 785 // ) लोकं चतुर्दशरज्ज्वात्मकं चराचरं वा लोकमज्ञात्वा केवलेन दिव्यज्ञानावभासेन इह अस्मिन् जगति ये तीर्थिका अजानाना अविद्वांसो धर्मं दुर्गतिगमनमार्गस्यार्गलाभूतं कथयन्ति प्रतिपादयन्ति ते स्वतो नष्टा अपरानपि नाशयन्ति, क्व?- घोरे भयानके संसारसागरे अणोरपारे त्ति अर्वाग्भागपरभागवर्जितेऽनाद्यनन्ते इति, एवंभूते संसारार्णवे आत्मानं प्रक्षिपन्तीतियावत् // 49 // 784 // साम्प्रतं सम्यग्ज्ञानवतामुपदेष्ट्रणां गुणानाविर्भावयन्नाह- लोय मित्यादि, लोकं चतुर्दशरज्वात्मकं केवलालोकेन केवलिनो विविधं- अनेकप्रकारं जानन्ति-विदन्तीह- अस्मिन् जगति, प्रकर्षेण जानाति प्रज्ञः, पुण्यहेतुत्वाद्वा पुण्यम्, तेन तथाभूतेन ज्ञानेन समाधिना च युक्ताः समस्तं धर्मं श्रुतचारित्ररूपं ये तु परहितैषिणः कथयन्ति प्रतिपादयन्ति ते महापुरुषाः स्वतः संसारसागरं तीर्णाः, परंच तारयन्ति सदुपदेशदानत इति / केवलिनोलोकंजानन्तीत्युक्तेऽपि यत्पुनर्ज्ञानेनेत्युक्तं तद्बौद्धमतोच्छेदेन ज्ञानाधार आत्मा अस्तीति प्रतिपादनार्थमिति, एतदुक्तं भवति- यथा देशिकः सम्यग्मार्गज्ञ आत्मानं परं च तदुपदेशवर्तिनं महाकान्ताराद्विवक्षितदेशप्रापणेन निस्तारयति, एवं केवलिनोऽप्यात्मानं परंचसंसारकान्तारान्निस्तारयन्तीति // 50 // 785 // पुनरप्याककुमार एवमाह जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया। उदाहडं तं तु समं मईए, अहाउसो विप्परियासमेव / / सूत्रम् 51 // // 748 //