Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 744 // न जायते?, अथ युगादावेतदिति एवं च सति दृष्टहानिरदृष्टकल्पना स्यादिति / तथा यदपि कैश्चिदभ्यधायि सर्वज्ञनिक्षेपावसरे, श्रुतस्कन्ध:२ तद्यथा- सर्वज्ञरहितोऽतीतः कालः,कालत्वाद्वर्तमानकालवत्, एवं च सत्येतदपि शक्यते वक्तुं यथा- नातीतः कालो षष्ठमध्ययनं ब्रह्ममुखादिविनिर्गतचातुर्वर्ण्यसमन्वितः कालत्वाद्वर्त्तमानकालवद्, भवति च विशेषे पक्षीकृते सामान्यं हेतुरित्यतः आईक्रीयम्, सूत्रम् 43-46 प्रतिज्ञार्थंकदेशासिद्धता नाशङ्कनीयेति / जातेश्चानित्यत्वंयुष्मत्सिद्धान्त एवाभिहितम्, तद्यथा-शृगालो वै एष जायते यः सपुरीषो / (778-781) दह्यत इत्यादिना, तथा सद्यः पतति मांसेन, लाक्षया लवणेन च / त्र्यहेन शूद्रीभवति, ब्राह्मणाः क्षीरविक्रयी॥१॥ इत्यादि, परलोके ब्राह्मणानां उपासना चावश्यंभावी जातिपातः, यत उक्तं- कायिकैः कर्मणां दोषैर्याति स्थावरतां नरः / वाचिकैः पक्षिमृगतां, मानसैरन्त्यजातिताम्॥१॥ इत्यादि, गुणैरप्येवंविधैर्न ब्राह्मणत्वं युज्यते, तद्यथा- षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि / अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः॥१॥इत्यादि, वेदोक्तत्वान्नायंदोष इति चेत्, नन्विदमभिहितमेव-'न हिंस्यात्सर्वभूतानी'त्यतः पूर्वोत्तरविरोधः, तथा आततायिनमायान्तमपि वेदान्तगं रणे। जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्॥१॥ तथा 'शूद्रं हत्वा प्राणायाम जपेत् / अपहसितं वा कुर्यात् यत्किञ्चिद्वा दद्यात्', तथा 'अनस्थिजन्तूनां शकटभरं मारयित्वा ब्राह्मणं भोजयेद्' इत्येवमादिका देशना विद्वज्जनमनांसि नरञ्जयतीत्यतोऽत्यर्थमसमञ्जसमिव लक्ष्यते युष्मदर्शनमिति। तदेवमार्द्रककुमारं निराकृतब्राह्मणविवादं भगवदन्तिकंगच्छन्तं दृष्वा एकदण्डिनोऽन्तराले एवोचुः, तद्यथा- भो आर्द्रककुमार! शोभनं कृतं भवता यदेते सर्वारम्भप्रवृत्ता गृहस्थाः शब्दादिविषयपरायणाः पिशिताशनेन राक्षसकल्पा द्विजातयो निराकृताः, तत्साम्प्रतमस्मत्सिद्धान्तं शृणु श्रुत्वा चावधारय, तद्यथा-सत्त्वरजस्तमसांसाम्यावस्था प्रकृतिः, प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकस्तस्मादपिषोडश // 744 //
Loading... Page Navigation 1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328