Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 755 // श्रुतस्कन्धः 2 सप्तममध्ययन नालन्दीयम्, सूत्रम् 68 (791) राजगृहनालन्दयोवर्जनम् तद्यथा - अलंकृतं देवदत्तेन स्वकुलं जगच्च नाभिसूनुने'त्यादि / तृतीयस्त्वलंशब्दार्थः प्रतिषेधे ज्ञातव्यो भवति, तद्यथा- अलं मे गृहवासेन, तथा 'अलं पापेन कर्मणा' उक्तं च- अलं कुतीर्थैरिह पर्युपासितैरलं वितर्काकुलकाहलैर्मतैः। अलं च मे कामगुणैनिषेवितैर्भयंकरा ये हि परत्र चेह च॥१॥ तदिह प्रतिषेधवाचिनाऽलंशब्देनाधिकार इत्येतद्दर्शयितुमाह- सत्यप्यलंशब्दस्यार्थत्रये नकारस्य सान्निध्यात्प्रतिषेधविधाय्येवेह गृह्यते, ततश्च निरुक्तविधानादयमर्थ:- नालंददातीतिनालन्दा बाहिरिकायाः स्त्रियोद्देशकत्वेन वाचकत्वेन च नालन्दशब्दस्य स्त्रीलिङ्गता, सा च सदैहिकामुष्मिकसुखहेतुत्वेन सुखप्रदा राजगृहनगरबाहिरिका धनकनकसमृद्धत्वेनसत्साध्वाश्रयत्वेन च सर्वकामप्रदेति / साम्प्रतं प्रत्ययार्थ दर्शयितुकाम आह-नालन्दायाः समीपे मनोरथाख्ये Bउद्याने इन्द्रभूतिना गणधरेणोदकाख्यनिर्ग्रन्थपृष्टेन तुशब्दस्यैवकारार्थत्वात्तस्यैव भाषितमिदमध्ययनम् / नालन्दायां भवं नालन्दीयं नालन्दासमीपोद्यानकथनेन वा निर्वृत्तं नालन्दीयम् / यथा चेदमध्ययनं नालन्दायां संवृत्तं तथोत्तरत्र पासावचिजे इत्यादिकया सूत्रस्पर्शिकगाथयाऽऽविष्करिष्यते॥२०१-२०४॥, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं तेणं कालेणं तेणं समएणंरायगिहे नामं नयरे होत्था, रिद्धिस्थिमितसमिद्धे वण्णओ जाव पडिरूवे, तस्सणं रायगिहस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए, एत्थ णं नालंदानाम बाहिरिया होत्था, अणेगभवणसयसन्निविट्ठा जाव पडिरूवा॥सूत्रम् 68 // ( // 791 // ) तत्थ णं नालंदाए बाहिरियाए लेवे नाम गाहावई होत्था, अड्डे दित्ते वित्ते विच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायरूवरजते आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए 0 अलं कृतं देव! देवेन स्वकुलं (मु०)। // 755 //
Loading... Page Navigation 1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328