Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text ________________ नियुक्ति श्रीसूत्रकृताङ्ग श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 747 // अस्य चोत्तरदानायाह- एव मित्यादि, एव मिति यथा भवतां दर्शने एकान्तनैव नित्योऽविकार्यात्माऽभ्युपगम्यते इत्येवं पदार्थाः श्रुतस्कन्धः२ सर्वेऽपि नित्याः, तथा च सति कुतो बन्धमोक्षसद्भाव:?, बन्धाभावाच्च न नारकतिर्यङ्नरामरलक्षणश्चतुर्गतिकः संसारः, षष्ठमध्ययनं आईक्रीयम्, मोक्षाभावाच्च निरर्थकं व्रतग्रहणं भवतांपञ्चरात्रोपदिष्टयमनियमप्रतिपत्तिश्चेति, एवं च यदुच्यते भवता- यथा 'आवयोस्तुल्यो धर्म'इति, तदयुक्तमुक्तम्, तथा संसारान्तर्गतानांच पदार्थानां न साम्यम्, तथाहि- भवतां द्रव्यैकत्ववादिनांसर्वस्य प्रधानाद- (782-783) एकदण्डिनः भिन्नत्वात्कारणमेवास्ति, कार्यं च कारणाभिन्नत्वात्सर्वात्मना तत्र विद्यते, अस्माकं च द्रव्यपर्यायोभयवादिनां कारणे कार्य हस्तितापद्रव्यात्मतया विद्यते न पर्यायात्मकतया, अपिच- अस्माकमुत्पादव्ययध्रौव्ययुक्तं सदुच्यते, भवतां तु ध्रौव्ययुक्तमेव सदिति, सवर्णनंच यावप्याविर्भावतिरोभावौ भवतोच्यते तावपिनोत्पादविनाशावन्तरेण भवितुमुत्सहेते, तदेवमैहिकामुष्मिकचिन्तायामावयोर्न कथञ्चित्साम्यम् / किंच- सर्वव्यापित्वे सत्यात्मनामविकारित्वे चात्माद्वैते चाभ्युपगम्यमाने नारकतिर्यनरामरभेदेन / बालकुमारसुभगदुर्भगाढ्यदरिद्रादिभेदेन वा न मीयेरन्- न परिच्छिोरन्, नापि स्वकर्मचोदिता नानागतिषु संसरन्ति, सर्वव्यापित्वादेकत्वाद्वा, तथा न ब्राह्मणा न क्षत्रिया न वैश्या न प्रेष्या- न शूद्रा नापि कीटपक्षिसरीसृपाश्च भवेयुः, तथा नराश्च सर्वेऽपि देवलोकाश्चेत्येवं नानागतिभेदेन न भिद्येरन्, अतोनसर्वव्यापी आत्मा, नाप्यात्माद्वैतवादोज्यायान्, यतः प्रत्येकं सुखदुःखानुभवः समुपलभ्यते, तथा शरीरत्वक्पर्यन्तमात्र एवात्मा, तत्रैव तद्गुणविज्ञानोपलब्धेरिति स्थितम्, तदेवं व्यवस्थिते युष्मदागमो यथार्थाभिधायीन भवति, असर्वज्ञप्रणीतत्वाद्, असर्वज्ञप्रणीतत्वं चैकान्तपक्षसमाश्रयणादिति // 48 // 783 // एवमसर्वज्ञस्य मार्गोद्भावने दोषमाविर्भावयन्नाह (r) युक्तमेव (मु०)। // 747 //
Loading... Page Navigation 1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328